2023-02-20 00:55:27 by ambuda-bot
This page has not been fully proofread.
820
न्यायकोचः ।
तमः । अम्बर वद्यत् द्रव्यं तत् क्रियावदृष्टम् इति ( प्रशस्त ० २ पृ० ३१ ) ।
द्विविधः साधर्म्यनिदर्शनाभासः वैधर्म्यनिदर्शनाभास श्चेति
स च
( प्रशस्त० २ पृ० ४८) ।
निदिध्यासनम् – [ क ] श्रुतस्यार्थस्य नैरन्तर्येण दीर्घकाळमनुसंधानम् ।
( त० प्र० १ पृ० ८ ) । तल्लक्षणं च निरन्तरं विचारो यः श्रुतार्थस्य
गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं तच्चैकाम्येण लभ्यते ॥ इति । ताम्यां
निर्विचिकित्सेर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यास-
नमुच्यते ॥ ( पञ्चद० ११५४ ) इति च । ताभ्यां श्रवणमननाभ्याम्
( वाच० ) । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि-
तव्यः ( श्रुतिः ) इत्यादौ ( नील० पृ० ५० ) । [ख ] मतेर्थे
सजातीयज्ञानधाराकरणम् (प० च० पृ० २० ) । [ग] विजातीय-
प्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणम् इति केचिदाहुः (नील० ) ।
O
निद्रा – १ मेध्यानाडीसंयोगः । २ योगजधर्मानुगृहीतस्य मनसो निरि-
न्द्रियप्रदेशावस्थानम् । योगाचार्यास्तु ३ अभावप्रत्ययालम्बनो वृत्ति-
विशेषः इत्याहुः । अत्र सूत्रम् अभावप्रत्ययालम्बना वृत्तिर्निद्रा (पात ०
सू० १।१० ) इति । विवरणं च जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः
कारणं बुद्धिसत्त्वाच्छादकं तमः । तदेवालम्बनं विषयो यस्याः सा तथोक्ता
वृत्तिर्निद्रा इति ( वाच० ) । ४ सुषुप्तिः इति वेदान्तिनः ।
-
निन्दा – दोषवत्तया ख्यापनम् । यथा शुचयजुर्याज्ञवल्क्यप्रणीतत्वापौरु-
षेयम् इति निन्दा । आरोप्यमाणदोषकथनमिति प्रामाणिकाः । यथा
वेदनिन्दारतान्मर्त्यान् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव मनसापि
न चिन्तयेत् ॥ ( कूर्मपु० अ० १५ ) इत्यादौ ( वाच० ) । निन्दा च
निन्दकेन पूर्वकृतं पुण्यं हन्ति ( पुरु० चि० पृ० ३७ ) ।
निन्दार्थवादः - [ क ] अनिष्टफलवादः । स च वर्जनार्थः । निन्दितं न
समाचरेत् इति (वात्स्या० २१११६३ ) । निन्दार्थवादवाक्यं लक्षणया
निषेध्यस्य निन्दितत्वबोधकतया अर्थवद्भवति इति विज्ञेयम् ( लौ० भा०