This page has not been fully proofread.

न्यायकोशः ।
 
४१९
 
( वात्स्या० ५/१/३५ ) । अयं नित्यसमध आचार्यमते बाघदेश-
नाभासः सत्प्रतिपक्षदेशनाभासश्च भवति । वृत्तिकारमते तु विरुद्ध-
देशनाभासो भवति इति विज्ञेयम् ( गौ० दृ० ५/१/३५ ) । [ ख ]
धर्मस्य नित्यत्वानित्यत्वविकल्पाद्धर्मिणि नित्यत्वसाधनम् । यथा शब्दस्य
यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा । यदि नित्यम् तदा शब्द-
वृत्तेरेव तस्य सदातनत्वाच्छन्दस्यापि तथात्वमागतम् । अथानित्यम् तदा
शब्दे कदाचिदनित्यत्वाभावोस्तीति नित्य एव शब्दः इत्युभयथापि शब्दस्य
नित्यत्वमिति ( नील० पृ० ४५ ) । [ग] धर्मस्य तदतद्रूपविकल्पानु-
पपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ॥ (तार्किकरक्षा ) ।
तद्द्विविधम् । साधारणम् असाधारणं च । तत्राद्यं स्वव्याघातकम् । द्वितीयं
त्रिविधम् । युक्ताङ्गहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति
( सर्व० पृ० १५३ पूर्ण० ) ।
 
-
 
नित्यसमासः - ( समासः ) [ क ] स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण
यल्लम्यार्थस्याबोधः सः । यथा कृष्णसर्प निर्मक्षिक असुर इत्यादिः ।
अत्रोक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्या-
बोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । अत्र कृष्णः सर्पः मक्षि-
काया नि: न सुरः इत्यादितस्तल्लभ्यस्य वैजात्या देरग्रहात् लक्षणसमन्वयः
( श० प्र० श्लो० ३२ पृ० ४० ) । [ ख ] शाब्दिकास्तु समस्य-
मानयावत्पदरहितविग्रहवाक्यसूचितः समासविशेष: इत्याहुः ( वाच ० ) ।
- [क] उदाहरणम् ( प्रशस्त ० २५० २८ ) । [ख]
दृष्टान्तः । यथोक्तं मायावादिमिः आत्मा ह्याकाशवज्जीवैर्घटाका शैरिवो-
दितम् । घटादिवच्च संघातर्जातावेतन्निदर्शनम् ॥ इति । अत्र भाष्यम्
यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा
जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदितमाकाशवदित्यादीनि
इति ( शब्दार्थचि ० ) ( वाच० ) ।
 
निदर्शनम्
 
-
 
निदर्शनाभासः - उदाहरणत्वेन भासमानः पदार्थः । यथा नित्यः शब्दः
अमूर्तस्यात् । यदमूर्ते तन्नित्यं दृष्टम् यथा परमाणुः यथा स्थाली यथा