2023-02-20 00:55:27 by ambuda-bot
This page has not been fully proofread.
४१८
न्यायकोशः ।
तन्नित्यमिह कीर्तितम् इति ( ति० त० ) ( वाच० ) । इदं च
कर्मणां नित्यत्वमिति ज्ञेयम् ( त० प्र० ख० ४ पृ० १०३ ) ( म०प्र० )
( ल० म० ) । यदकरणे प्रत्यवाय इत्यत्राकरणे इत्यस्य विहिततत्कालीना-
करण इत्यर्थः । तेन अन्यदा संभ्यावन्दनाकरणेपि न क्षतिः ( त०
प्र० ख० ४ पृ० १०३ ) । तादृशनित्यत्वस्योदाहरणं यथा अहरहः
संध्यामुपासीत इत्यादौ संध्योपासनाया नित्यत्वम् इत्याहुः ( ल० म० ) ।
अत्रोच्यते नित्यं नैमित्तिकं चैव नित्यनैमित्तिकं तथा । गृहस्थस्य त्रिधा
कर्म तन्निशामय पुत्रक ॥ पञ्चयज्ञादिकं नित्यं यदेतत्कथितं तव ।
नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् ॥ नित्यनैमित्तिकं ज्ञेयं
पर्वश्राद्धादि पण्डितैः इति ( श्रा० त० ) ( मार्क० पु० ) ( वाच० )।
[ ५ ] नैरन्तर्यमिति काव्यज्ञा आहुः ।
नित्यसमः – ( जाति: ) [क] नित्यमनित्यभाषादनित्ये नित्यत्वोपपत्तेर्निव्य-
समः ( गौ० ५/१२/३५ ) । तदर्थश्च [१] अनित्यस्य भावः अनित्य-
त्वम् । तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं स्यात्
इत्यापादनं नित्यसमः । अयमाशयः । अनित्यत्वस्य नित्यमस्वीकारे .
अनित्यत्वाभावदशायां तस्यानित्यत्वं न इति तस्य नित्यत्वापत्तिः ।
नहि दण्डाभावदशायां दण्डी इत्युच्यते । अतः अनित्यत्वस्य नित्यमेव
स्वीकार इत्यभ्युपगन्तव्यम् । तथा च शब्दस्यापि नित्यत्वापत्तिः
इत्याचार्याः । [२] वृत्तिकारास्तु अनित्यस्य भावो धर्मस्तस्य नित्यम-
भ्युपगमे अनित्यत्वेनाभ्युपगतस्य नित्यत्वं स्यात् । यथा क्षितिः सकर्तृके-
त्यत्रानित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमुपेयते न वा । न
चेत् तदा साध्याभाबादंशतो बाधः । अथ क्षितौ नित्यमेव सकर्तृकत्व-
मुपेयते तदा क्षितेर्नित्यत्वं स्यात् इत्याहुः ( गौ० वृ० ५ । १ । ३५ )।
नित्यसमस्योदाहरणं यथा अनित्यः शब्द इति प्रतिज्ञायते । तदनित्यत्वं
किं शब्दे नित्यमथानित्यम् । यदि तावत्सदा भवति धर्मस्य सदाभावा-
द्धर्मिणोपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा भवति
अनित्यत्वस्याभावान्नान्नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थानान्नित्यसमः
.