This page has not been fully proofread.

न्यायक्रोशः ।
 
प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनम् । तच तस्मात्तथा इति
वाक्यम् इत्याहुः । अत्रोच्यते असकृदनुचिन्तितानामध्याहततरनिजो-
पदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
इति ( वेदान्त ० ) ( वाच ० ) ।
 
४१६
 
-
 
निग्रहः -१ [ क ] पराजयप्राप्तिः ( वात्स्या० १ २ १९ ) । यथा
साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं व्यावृत्तं च विपक्षतो
भवति यत्तत्साधनं सिद्धये । यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं
च यत्तस्याङ्गीकरणेन वादिन इव स्यात्खामिनो निग्रहः ॥ ( मुद्रारा०
नाट० ५/१० ) इत्यादौ । [ख] खलीकार: (गौ० वृ० १।२।१९ ) ।
[ग] पराहंकारनिराकरणम् इति केचिदाहुः । २ भर्त्सनम् । ३ सीमा ।
४ बन्धनम् । ५ अनुग्रहाभावः । ६ चिकित्सा । ७ निषिद्धे प्रवृत्तस्य
तिरस्कारः । ८ मारणे प्रवृत्तिवारणाय निरोधः । ९ निरोधरूपयोगेना-
भ्यासवैराग्याम्यां मनसो निरोधः । यथायोग्यमुदाहरणे यथा निग्रहानु-
ग्रहे शक्तः प्रभुरित्यभिधीयते इति तस्याहं निग्रहं मन्ये वायोरिव सुदु-
ष्करम् ( गीता० अ० ६ श्लो० ३४ ) इति च ( वाच० ) ।
निग्रहस्थानम् – [ क ] वादिनोपजयहेतुः शब्दप्रयोगः (त० दी० पृ० ४५)।
निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । तल्लक्षणं च उद्देश्यानु-
गुणसभ्यग्ज्ञानाभावलिङ्गत्वम् । प्रतिज्ञाहान्याद्यन्यतमत्वं वा इत्यपि वदन्ति
( गौ० वृ० १ । २ । १९ )। [ख ] कथायां पराजयहेतुर्वाक्यम् ( त०
प्र० पृ० २४ ) । [ग] इष्टार्थभङ्गरूपो विरोधोपि निग्रहस्थानम् इति
तर्कभाषाकृदाह ( त० भा० १० ५१ ) । [घ ] हेत्वाभासप्रयोगः
(गौ० वृ० १११११) ( त० मा० पृ० ५१ ) ( सर्व० पृ०
२४३ अक्ष० ) । यथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ( गौ०
११२/६० ) इत्यादौ । तदर्थश्च विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः ।
अप्रतिपत्तिः प्रकृताज्ञानम् । तथा च विप्रतिपत्ति अप्रतिपत्ति एतदन्यत-
रोक्षायक धर्मबत्वम् ( गौ० दृ० ११२।१९) । यद्वा विपरीता वा
कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्राप्नोति ।
 
-