2023-02-20 00:55:26 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
अपदेशः कयनम् । प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्ठपक्षस्य वचनम्
इति ( गौ० वृ० १ । १ । ३९ ) । साधर्म्याक्ते वैधयक्ते वा यथोदाहरण-
मुपसंह्वियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् ।
निगग्यन्तेनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र इति निगमनम् ।
निगम्यन्ते समर्थ्यन्ते संबध्यन्ते । तत्र साधर्म्याक्ते ताबद्धेतौ वाक्यम्
अनित्यः शब्दः इति प्रतिज्ञा । उत्पत्तिधर्मकत्वात् इति हेतुः । उत्पत्तिधर्मकं
स्थाल्यादि द्रव्यमनित्यं दृष्टम् इत्युदाहरणम् । तथा चोत्पत्तिधर्मकः शब्दः
इत्युपनयः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् ।
बैधर्म्याक्तेपि अनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि
द्रव्यं नित्यं दृष्टम् । न च तथा अनुत्पत्तिधर्मकः शब्दः । तस्मादुत्पत्तिधर्म-
कत्वादनित्यः शब्दः इति । सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निग
मनम् इति (वात्स्या० १ । १ । ३९ ) । [ख] व्याप्तिविशिष्टपक्षधर्महेतु-
कथनपूर्वकसाध्यविशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्टपक्ष-
बोधकः तादृशसाध्यबोधको वा न्यायावयवः ( गौ० वृ० १ । १।३९ ) ।
अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणव्यातिपक्षधर्म-
ताधीप्रयुक्तसाध्यधीजनकं वाक्यम् ( चि० अव० २ पृ० ८२ ) ।
[घ ] पक्षे साध्योपसंहार: ( त०] भा० पृ० ४३ ) । [ङ ] हेतु-
साध्यवत्तया पक्षप्रतिपादकं वचनम् ( त० दी० २ पृ० २२ ) ।
हेतुज्ञानज्ञाप्यत्व विशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः ( नील० २
पृ० २२ ) । [ च ] पक्षे साध्यस्याबाधितत्वप्रतिपादकं वचनम् ( सि०
च० २ पृ० २५) । [ छ ] अबाधितत्वासत्प्रतिपक्षितत्व तात्पर्यकं
वाक्यम् ( त० कौ० २ पृ० १३ ) । [ज ] लिङ्गसंबन्धप्रयुक्त-
निश्चितसाध्यवत्ववचनम् । यथा पर्वतपक्षकवह्विसाध्यकघूमहेतुकस्थले
पर्वतो वह्निमान् धूमादित्यादौ तस्मादग्निमानिति तस्मात्तथेति वा वाक्यं
निगमनम् ( त० मा० पृ० ४३ ) ( त० कौ० २ पृ० १३ )
( त० सं० ) । अत्र व्याप्तिपक्षधर्मत विशिष्टधूमस्तत्पदार्थः । ज्ञान-
ज्ञाप्यत्वं पञ्चम्यर्थः । तथा च व्याप्तिपक्षधर्मताविशिष्टधूमज्ञानज्ञाप्यवह्नि-
मान्पर्वत इति बोध: ( वाक्य० २ पृ० १५ ) । [ स ] केचित्तु
[ग]
.