This page has not been fully proofread.

४१४
 
म्यायकोशः ।
 
पुरुषस्व निर्लेपत्य कैवल्येनावस्थानं कैवल्यम् । पुरुषार्थशून्यानां गुणानां
प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा वा चिच्छक्तिः मोक्षः इति पातजला: ।
ऊर्ध्वगतिः इति केचित् । निरुपलवा चित्तसंततिः इति परे । अप्रिम-
चित्तानुत्पादे पूर्वचित्तनिवृत्तिः इत्यपरे । आत्महानिः इत्येके । चित्तानु-
त्पादनं निरोधो वापवर्गः इत्यन्य आहुः इति ( न्या० वा० ११ १२ १२२
पृ० ८८) (सर्व० ) ( सि० च० पृ० ३७ ) ( न्या० सि० दी०
पृ० २५) (३० वि० १ । ११४ पृ० १६-१७) (पात० सू० ४।३४ ) ।
२ मङ्गलम् । ३ विज्ञानम् । ४ भक्तिः । ५ अनुभावः । यथा पण्डितो
हार्यकृच्छ्रेषु निःश्रेयसकरं वचः ( भार० स० श्लो० १६९) तपो
विद्या हि विप्रस्य निःश्रेयसकरं परम् ( मनु० अ० १२ श्लो० १०४ )
इत्यादौ ( वाच० ) ।
 
-
 
निःश्वासः - [ क ] प्राणवायोर्व्यापारविशेषः ( गौ० वृ० ३ । १ । ३० ) ।
यथा निःश्वस्य मत्करधृतं निजमम्बरान्तमाकृष्य हन्त चलितैव कथं
प्रिया मे ( मुकु० भाग ) इत्यादौ । [ ख ] प्राणवायोर्नासया बहि-
निःसरणम् । यथा वृषलीफेनपीतस्य निःश्वासोपहतस्य च ( मनु०
अ० ३ श्लो० १९) इत्यादौ ।
 
निक्षेपः - समक्षं समर्पणं निक्षेपः ( मिताक्षरा अ० २ लो० ६७) ।
 
-
 
निगद: - १ परप्रत्यायनार्था मन्त्रा निगदाः ( जै० न्या० अ० २ पा० १
अधि० १३ ) । २ देवतासंबन्धबोधकः पदसमूहो निगदः । पर
संबोधमार्थलोडन्तपदयुक्तपदसमूहो निगद इत्यन्ये ( काव्यप्रदीपोद्योते
पृ० २२१ ) ।
 
निगमः -१ न्यायशास्त्रम् । २ तन्त्र विशेषः ।
 
-
 
३ वेदः । यथा निगम-
कल्पतरोर्गलितं फलम् ( भाग ० १ । १ । ३ ) शतं जीव शरदो वर्धमान
इत्यपि निगमो भवति ( यास्कनिरुक्त० ) इत्यादौ ।
 
-
 
निगमनम् - ( न्यायावयवः ) [ क ] हेस्वपदेशात्प्रतिज्ञायाः पुनर्षचनं निग-
मनम् ( गौ० ११ १२ १३९ ) । तदर्थव हेतोः ब्यातिविशिष्टपक्षधर्मस्य