This page has not been fully proofread.

४१२
 
न्यायकोशः ।
 
ज्ञानमस्ति, निःश्रेयसाधिगमश्च । तथा हि ( १ ) त्रय्यां तावत् तत्त्वज्ञानम्
अग्निहोत्रादिसाधनानां याथार्थ्येन परिज्ञानम् । निःश्रेयसाधिगमोपि
स्वर्गप्राप्तिः । ( २ ) वार्तायां तु भूम्यादिपरिज्ञानं तत्त्वज्ञानम् । कृष्याद्य-
धिगमश्च निःश्रेयसम् । (३) दण्डनीत्याम् सामदानदण्डभेदानां यथा-
कालं यथादेशं यथाशक्ति विनियोगस्तत्त्वज्ञानम् । निःश्रेयसं पृथिवीजयः
इति । ( ४ ) इह तु अध्यात्मविद्यायाम् ( आन्वीक्षिक्याम् ) आत्मज्ञानं
तत्त्वज्ञानम् । निःश्रेयसाधिगमोपवर्गप्राप्तिः इति ( न्या० वा० १
पृ० २३ ) । निःश्रेयसं तावद्द्विविधम् । परम् अपरं च । तत्रापरम्
जीवन्मुक्तिलक्षणं तत्त्वज्ञानानन्तरमेव । तदप्यवधारितात्मतत्त्वस्य नैरन्तर्या-
भ्यासापहृतमिथ्याज्ञानस्य प्रारब्धं कर्मोपभुञ्जनस्य । परं निःश्रेयसं तु
क्रमेण भवति ( गौ० वृ० १ । १ । १ ) । उभयविधनिःश्रेयससा-
धारणलक्षणं तु सवासन मिथ्याज्ञानध्वंसत्वम् । तत्त्वसाक्षात्कारप्रागभा-
वविरहत्वं वा । अथवा योगजधर्मप्रागभावविरहत्वम् ( न्या० सि०
दी० पृ० २९) । जीवन्मुक्तौ चोक्तम् जीवन्नेव हि विद्वान् संहर्षाया-
साभ्यां विमुच्यते इति ( न्या० वा० १ पृ० २४) । परनिःश्रेय-
सप्राप्तौ क्रमस्तावत् तत्त्वज्ञानेन मिथ्याज्ञाननाश: । मिथ्याज्ञाननाशे दोष-
नाशः । दोषनाशे प्रवृत्तिनाशः । प्रवृत्तिनाशे जन्मनाशः । जन्मनाशे दुःख-
नाश: इति ( गौ० दृ० १११ १२ ) । वार्तिककारास्तु निःश्रेयसं
पुनर्दृष्टादृष्टभेदात् द्वेधा भवति । तत्र प्रमाणादिपदार्थतत्त्वज्ञानान्निःश्रेयसं
दृष्टम् । नहि कश्चित्पदार्थो ज्ञायमानो हानोपादानोपेक्षाबुद्धिनिमित्तं न
भवतीति । एवं च कृत्वा सर्वे पदार्था ज्ञेयतया अपेक्ष्यन्त इति । परंतु
निःश्रेयसमदृष्टम् आत्मादेस्तत्त्वज्ञानाद्भवति । दृष्टम् प्रमाणादिपरिज्ञा-
नात् अदृष्टं पुनरात्मादेः प्रमेयस्य परिज्ञानादिति इत्याहुः ( न्या०
वा० १ पृ० १२) । इदानीं मतभेदेन निःश्रेयसभेदा उच्यन्ते ।
स्वातत्र्यं मृत्युर्वा मोक्षः इति चार्वाका आडुः । आत्मोच्छेदो मोक्षः
इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदयः इति विज्ञान-
वादिनः । आवरणमुक्तिर्मुक्तिः इत्याईताः । ब्रह्मांशिकजीषस्याविद्या-
प्रभवमिथ्याज्ञाननिवृत्तौ स्वस्वरूपाधिगमः इति मायावादिनः अद्वैतिनः