This page has not been fully proofread.

न्यायकोशः ।
 
४११
 
[छ] एकविंशतिभेदमिनस्य दुःखस्यात्यन्तिकी निवृत्ति: ( त० मा०
प्रमेय० पृ० ४१ ) । एकविंशतिभेदास्तु शरीरम् षडिन्द्रियाणि षढिषयाः
षड़िधानि प्रत्यक्षज्ञानानि सुखं दुःखं चेति । शरीरादीनां दुःखसाधनत्वा-
दुःखत्वम् । सुखस्य च दुःखसंबन्धाद्दुःखत्वम् । अत्र वार्तिककारा
आहुः । श्रेयः पुनः सुखम् अहितनिवृत्तिब्ध । तच्छ्रेयो भिद्यमानं द्वेधा
व्यवतिष्ठते दृष्टादृष्टमे देन। दृष्टं सुखम् । अदृष्टमहितनिवृत्तिः । अहित-
निवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादे-
दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिभेदमिनदुःख-
हान्या । तस्य हानिर्धर्माधर्मसाधनपरित्यागेन । अनुत्पन्नयोर्धर्माधर्मयोरनु-
त्पादेन उत्पन्नयोश्चोपभोगाप्रक्षयेण इति ( न्या० वा० पृ० २ )
( त० मा० प्रमेय० पृ० ४१ ) । [ज ] आत्यन्तिको दुःखाभावः
( न्या० वा० पृ० ४ ) । [ झ ] अहितनिवृत्तिरात्यन्तिकी ( न्याo
क० पृ० ४ ) । तस्याः सद्भावे प्रमाणम् दुःखसंततिर्धर्मिण्यत्यन्तमुच्छि-
धते संततित्वाद्दीपसंततिषत् इत्यनुमानम् इति तार्किका आहुः ( न्या०
क० पु० ४ ) । [ञ ] नित्यनिरतिशयसुखाभिव्यक्तिः इति दीधिति-
कदाह ( ल० म० ) । [ट ] चरमदुःखध्वंस: ( त० दी० ) । यथा
तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौ० १ । १ । १ ) इत्यादौ हिरण्यगर्भ-
रुद्रादियोग्यजीवानां मोक्षः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां
पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० १ १
१० ५ ) । अत्र पदार्थतत्त्वज्ञानस्यात्मतत्त्वज्ञानद्वारा निःश्रेयसं प्रति
साधनत्वमुच्यते ( त० कौ० पृ० २१ ) । अत्र विप्रतिपत्तिः ।
कर्मज्ञानयोस्तुल्यवत्समुञ्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा क-
र्मणां तत्र कारणत्वम् । तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र
समुखय प्रतिपादिका श्रुतिः विद्यां चाविद्यां (कर्म) च यस्तद्वेदोभयं
सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमभुते ( ईशा० ) इति ।
आचार्यमते तु श्रुतिः तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेय-
नाय इति ( न्या० सि० दी० पृ० २४) । तदिदं तत्वज्ञानं निःश्रेय-
साधिगमध यथाविधं वेदितव्यमिति । सर्वासु विद्यासु चतसृषु तस्व-