This page has not been fully proofread.

न्यायकोशः ।
 
चात्यन्तिकोपवर्गो निःश्रेयसम् इति ( वात्स्या० ११ १/२) । इदमत्रा-
कूतम् । योगबलेनात्मतत्त्व साक्षात्कारे सति तेन च सवासनमिथ्याज्ञाने
ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात्प्रवृत्तेरपाये तन्नि-
बन्धनस्य जन्मनः अपाये तन्निबन्धनस्य दुःखस्यापाय इति ताबद्वस्तुगतिः
(बै० उ० ५/२/१८) । द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां
तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त० पृ० १ ) । [ ख ] शान्तः खल्षयं
सर्वेविप्रयोगः सर्वोपरमोपवर्गः (वात्स्या० १।१।२) । [ग] तदभावे सं-
योगाभावो प्रादुर्भावश्च मोक्षः (वै० ५/२/१८) । अस्यायमर्थः । तदभावे
तस्यादृष्टस्याभावे सति । प्रारब्धेतरादृष्टानामात्मसाक्षात्कारेण प्रारब्धानां च
भोगेन क्षये सतीति यावत् । संयोगाभावः देहप्रवाहसंबन्धस्य विच्छेदः ।
तदनन्तरं चाप्रादुर्भावः अर्थाद्दुः खस्यानुत्पत्तिः । देहरूपस्यादृष्टस्य च कार-
णस्य विरहात् । अतः तदानीमेव मोक्षोपवर्गः संभवतीति नापवर्गस्य शश-
विषाणसमानता इति भावः (वै० वि०५/२११८) । [घ ] अशेषविशेष-
गुणध्वंसावधिकदुःखप्रागभावः (वै० उ० १ । १ ४) । [ङ ] आत्यन्तिकी
दुःखनिवृत्तिः ( वै० उ० १ । १ । ४ ) ( गौ० वृ० १ । १२ । २ ) ( सर्व० पृ०
२४६ अक्ष०) (दि० १ ) ( त० दी० ) ( त० कौ० ) । अत्रात्यन्तिकत्वं
च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । युगपदुत्पन्नस-
मानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा ( वै० उ० १।१।
( दि० १)
 
-
 
४ ) । अथवा स्वसमानाधिकरणदुःखासमानकालीनत्वम्
( त० दी० ) । अत्र संसारकालीनस्य दुःखध्वंसस्य मोक्षत्ववारणाय
कालीनान्तत्वं दुःखनिवृत्तिविशेषणम् । अस्मदीयदुःखसमानकालीनशुक-
मोक्षे अव्याप्तिवारणाय स्वसमानाधिकरणेति दुःखविशेषणं बोध्यम्
( त० कौ० पृ० २२ ) ( म० प्र० १ पृ० ४ ) । यद्वा निर्वर्त्य-
सजातीयस्य दुःखस्य पुनस्तत्रानुत्पादः ( सर्व० पृ० २४६ अक्ष० ) ।
[च ] स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंस: ( त० प्र० )
( गौ० वृ० १११ २२ ) ( म० प्र० १ ४ ) ( त० कौ० पृ० २२ ) ।
भत्र दुःखध्वंसो दुःखानुत्पत्तिः इत्यर्थः इति वैशेषिकाः ( त० ब० ) ।