2023-02-20 00:55:26 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
मोश: - १ ध्वंसः । २ शाब्दिकास्तु अदर्शनानुकूलव्यापारः । स च
ध्वंससामग्रीरूपः व्यवधानाद्यनुकूलव्यापाररूपश्च । यथा उत्पतिते काके
मष्टं तद्गृहं भवति हृतं नष्टं च लभ्यते इत्यादौ इत्याहुः । तन्मते ध्वंसस्तु
तिरोभावावस्था ( ल० म० धात्व० पृ० ६ ) । ३ सांख्यास्तु नाश:
कारणलयः ( सां० अ० १ सू० १२१ ) इत्याहुः ।
भाशवस्वम् – विनाशित्वम् ।
नास्तिकः–[ क ] वेदमार्गमननुरुन्धानः किंचिदपि पारत्रिकम् आमुष्मिकं
स्वर्गनरका पूर्वादिकम् नास्ति इति बादी । यथा चार्वाको बृहस्पति-
र्नास्तिकः । [ ख ] परलोकतत्साधनादृष्टाद्यभाववादी तत्साक्षिण ईश्वरस्या-
सत्ववादी च । यथा अतिमात्रोज्झितभीरनास्तिकः ( माघः ) नास्तिक्यं
वेदनिन्दां च देवतानां च कुत्सनम् ( मनु० अ० ४ श्लो० १६३ )
इत्यादौ । नास्तिकः षड़िधः । चार्वाक: बौद्धाश्चत्वारः दिगम्बरश्चेति ।
इदानीं चार्वाकादीनां षण्णां संक्षेपतो मतस्वरूपमुच्यते । तत्र चार्वाकः
प्रत्यक्षमात्रप्रमाणवादी । तन्मते ब्राह्मणोहम् गौरोहम् स्थूलोहम् जानामि
इत्यादिसामानाधिकरण्यप्रतीतेः ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान-
सुखाद्याश्रयत्वं सिद्ध्यतीति शरीरमेवात्मा । तत्र श्रुतिरपि स वा एष
पुरुषोन्नरसमयः इति । पृथिव्यप्तेजोवाय्वात्मकचतुर्विधभूतसमुदायमेलने
किण्वादिम्यो मदशक्तिवचैतन्यमुपजायते । पारत्रिकस्वर्गनरकपुण्यपापा-
दिकं नास्त्येव । अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थ: । कण्टकादि-
जन्यं दुःखमेव नरकम् । लोकसिद्धो राजैव परमात्मा । देहोच्छेदो मोक्षः ।
इति चार्वाकमतम् । चत्वारो बौद्धाश्च माध्यमिको योगाचारः सौत्रान्तिकः
वैभाषिकश्चेति । दिगम्बरो जैनभेदः । तत्र शून्यवादी माध्यमिकः । तन्मते
सुषुप्त्यव्यवहितोत्तरक्षण उत्थितस्य सुषुप्तावहं नासम् इत्यनुभवाच्छ्रन्य-
मेवात्मा । अत एव सर्वमिदं मिथ्यैव इति शून्यवादः । अत्र श्रुतिरपि
असवा इदमग्र आसीत् ( ब्रह्म० उप० पृ० ४ ) इति । क्षणिक विज्ञानवादी
योगाचारः । तन्मते क्षणिकविज्ञानम् ( स्वयंवेदनम् ) एकमेव । तदति-
रिक्तं बाह्यं प्राह्मवस्तुजातं नास्ति । तच्च विज्ञानं द्विविधम् । प्रवृत्ति-