2023-02-20 00:55:25 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
०
नमन्व्याख्यातशब्दे गुणभावेन नमन्ति वा स्वमर्थमाख्यातशब्दवाच्ये
गुणभावेनेति नामानि । तथा चोक्तम् शब्देनोच्चारितेनेह येन द्रव्यं
प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ इति ( निरुक्ते
नैषण्टुक० पूर्वषट्के अ० १ पा० १ ख० १ दुर्गाचार्यकृतटीका ) ।
[ख] प्रातिपदिकरूपः शब्दविशेषः । यथा घटोस्तीत्यत्र घटशब्दः
इति पाणिनीया आहुः । [ग] पौराणिकास्तु वाचकशब्दः । यथा
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नास्त्येव नास्त्येव नास्त्येव
गतिरन्यथा ॥ इत्यादौ इत्याहुः । नाम चतुर्विधम् । रूढम् लक्षकम् योग-
रूढम् यौगिकं चेति । केचित्तु रूढयौगिकमप्यधिकं पञ्चमं नाम स्वीकुर्वन्ति ।
यथा मण्डपमहारजतादि । तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच
समुदायशक्त्या रूढ्यर्थमेवाभिधत्ते इत्यपरेषां मतम् (श० प्र० श्लो० १५
पृ० १६ ) । पतञ्जलिस्तु पञ्चविधं नाम इत्याह । तत्र प्रथमम् सुपांमध्य
एकवचनमात्र साकाङ्क्षम् । यथा एकविंशति इत्यादिपदम् । द्वितीयम्
द्विवचनमात्रसाकाङ्क्षम् । यथा उभ द्वि पुष्पवत् पुष्पवन्त इत्यादिपदम् ।
तृतीयम् बहुवचनमात्रसाकाङ्क्षम् । यथा प्राण त्रि चतुर इत्यादि पदम्
कतिपदं च । चतुर्थम् द्विवचनमात्रनिराकाङ्क्षम् । यथा उभय इति पदम् ।
पञ्चमम् बचनत्रयसाकाङ्क्षम् । यथा घट पट इत्यादिपदम् ( श० प्र०
श्लो० ५४ पृ० ६९-७० ) । प्रकारान्तरेण नाम पञ्चविधम् उणाद्यन्तं
कृदन्तं च तद्धितान्तं समासजम् । शब्दानुकरणं चैव नाम पञ्चविधं
स्मृतम् ॥ इति ( वाच ० ) । नाम शब्दसंस्कारसिद्ध्यर्थं त्रिधा भिद्यते
स्त्रीलिङ्गम् पुंलिङ्गम् नपुंसकलिङ्गम् चेति (श० प्र० श्लो० ५३ पृ०६८) ।
२ संज्ञाशब्दः । यथा अयं देवदत्त इत्यादौ देवदत्त इति शब्दः । द्वादशे-
हनि पिता नाम कुर्यात् इतीश्वरेच्छया पिता स्वपुत्रस्य देवदत्त इत्यादि
नाम करोति इति विज्ञेयम् । यथा च नामजात्या दियोजनाहीनं ज्ञानं
निर्विकल्पकम् ( सि० च० १ पृ० २१ ) इत्यादौ ।
४०७
नामकरणम् – पुत्रादीनां केशवादिनाम्ना व्यवहारः ( सर्व० सं० पृ०
१३८ पूर्णप्र० ) ।