2023-02-20 00:55:25 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ततः स्वार्थे कप्रत्यय इति । २ तत्सत्तानियतसत्ताकत्वम् । यथा नान्तरीयक-
फलजनकत्वमित्यादौ । यथा च प्रतिबन्धकाभावे नान्तरीयका अर्थोत्पत्तिः
इत्यादौ । ३ मध्ये अवश्यंभावित्वम् इति केचिदाडुः ।
नान्दीमुखाः - अश्रुमुखशब्दे दृश्यम् ।
-
नाम – ( अव्ययम् ) १ संज्ञा । यथा सुरथो नाम राजेत्यत्र नामशब्दार्थ
संज्ञा । सुरथो नाम राजा इत्यत्र सुरथः सुरथशब्दवाच्यः । तदेकदेशे
च शब्दे संज्ञार्थकनामेत्यव्ययेन प्राप्तसंज्ञातादात्म्यान्वयः । तेन संज्ञा-
तादात्म्यवत्सुरथशब्दवाच्यो राजा इत्यर्थः । एवम् नाम्ना चन्द्रमुखी-
व्यादावनव्ययेनापि नामपदेनोक्तदिशैवान्चयो द्रष्टव्यः । अत्र कश्चिदाह
सुरथो नाम राजेयत्र संभाव्यत्वं नामशब्दार्थः । तच्च सुरथेन्वितम् इति
( श० प्र० लो० ९२ पृ० १२४ ) । २ कोपः । यथा ममापि नाम
दशाननस्य परैरभिभवः इत्यादौ । ३ उपगमः । सासूयोङ्गीकारः । यथा
एवं नामास्तु इत्यादौ । ४ प्राकाश्यम् । यथा हिमालयो नाम नगाधि-
राजः इत्यादौ । अत्र हिमालयः प्राकाश्येनातिप्रसिद्धः इत्यर्थः ( वाच० ) ।
५ संभावना । यथा इह नाम सीता भविष्यति इत्यादौ । ६ कुत्सनम् ।
यथा को नामायं सवितुरुदये स्वापमेवं विधत्ते इत्यादौ । ७ विस्मयः ।
यथा अन्धो नाम गिरिमारोहति इत्यादौ । ८ अलीकम् । यथा अहं च
भीतो नामावलुतः ( शाकुन्त ० ) इत्यादौ ।
नाम - ( अयं नामन् इति नकारान्तो नपुंसकलिङ्गः शब्दः ) १ [ क ]
यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्यविशेष्य कान्वयबोधार्थ खोत्तरप्रथमा-
विभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम । यथा घटादयो हि
शब्दाः प्रथमान्तत्वेन निश्चिता एवं स्वार्थमुख्य विशेष्यकं बोधमुत्पादयन्ति
न त्वन्यथा ( श० प्र० श्लो० १४ पृ० १५ ) । अत्रार्थे नामशब्दस्य
व्युत्पत्तिलक्षणे उच्येते । तत्र व्युत्पत्तिः नमति आख्यातायें प्रति स्वार्थ-
विशेषणत्वेन इति नाम । लक्षणं तु सत्त्वप्रधानानि नामानि इति
( निरुक्त० ) । तदर्थश्च लिङ्गसंख्ययोरत्र सद्भाव इति सत्त्वं द्रव्यम् ।
तथा लक्षणोपपत्तेः । तद्येषु प्रधानं गुणभूता क्रिया नामान्येव तानि ।