This page has not been fully proofread.

न्यायकोशः ।
 
77
 
नाक्षत्रम् –नक्षत्रमेव नाक्षत्रम् । तन्नाक्षत्रमहोरात्रं यस्मिन्नस्तमियाद्रविः ।
यस्मिन्नुदेति सविता तन्नाक्षत्रं भवेदिनम् ॥ ( पु० चि० पृ० ५१ ) ।
नाग:- - पञ्चमी ( कामशब्दे दृश्यम् ) ।
नाटकम् – दृश्यकाव्यात्मको रूपकविशेषः । यथा मुरारिकवेरनर्धराघवम्
भवभूतेरुत्तररामचरितम् कालिदासस्याभिज्ञानशाकुन्तलं चेति । नाटकस्य
षट्त्रिंशल्लक्षणानि (३६) यथा भूषणाक्षरसंघातौ शोभोदाहरणं तथा ।
हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ॥ निदर्शनाभिप्रायौ च प्राप्ति-
विचार एव च । दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥ विशेषण-
निरुक्ती च सिद्धिर्भेशविपर्ययौ । दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं
तथा ॥ पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् । लेशो मनोरथो-
नुक्तसिद्धिः प्रियवचस्तथा ॥ ( सा० ६० ६ । १७१-१७४ ) इति । नाटकं
च दशसु रूपकेषु प्रथमम् । रूपकाणि तु नाटकमथ प्रकरणं भाण-
व्यायोगसमवकारडिमा: । ईहामृगाङ्कवीध्यः प्रहसनमिति रूपकाणि
दश ॥ ( सा० द० ६ । ३ ) ( वाच० ) ( प्रतापरुद्र० प्रक० ३ ) इति ।
नाटकस्वरूपं तु यथा नाटकं ख्यातवृत्तं स्यात्पञ्चसंधिसमन्वितम् ।
विलासर्यादिगुणबद्युक्तं नानाविभूतिभिः ॥ सुखदुःखसमुद्भूति नानारस-
निरन्तरम् । पञ्चादिका दशपरास्तत्राका परिकीर्तिताः ॥ प्रख्यातवंशो
राजर्षिर्धीरोदात्त: प्रतापवान् । दिव्योथ दिव्या दिव्यो वा गुणवान्नायको
मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे
कार्यो निर्वहणेद्भुतः ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः । गो-
पुच्छाप्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ (सा० ६० ६/७ - ११) इति ।
नाडिका - अहोरात्रात्मकस्य कालस्य षष्टितमो भागः ।
 
नानार्थकत्वम् – नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैक धर्मवस्वम् (वै०
सा० द० ) । यथा हरिपदस्य विष्णु सिंह भेक अंशु इत्यादिनानार्थकत्वम् ।
नान्तरीयकत्वम् – १ व्याप्तिः ( काव्यप्र० टी० कमला० उल्ला० २ ) ।
तदभावे तदभावरूपा व्याप्तिः इति महेश्वरः । अत्र व्युत्पत्तिः न अन्तरा
विना नान्तरा । ततो भवार्थे छप्रत्ययः । अव्ययानां भमात्रे टिलोपः ।