2023-02-20 00:55:24 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
उद्यते भारो ग्रामं चैत्रेणेत्यादौ च नीबहादिधात्वर्थ: ( ग० व्यु० का ० २
पृ० ४६ ) । [ ख ] गत्यवच्छिन्नव्यापारः । यथा ग्राममजां बहति
नयतीत्यादौ वहिप्रभृतेरर्थ: ( श० प्र० श्लो० ७३ पृ० ९९ ) । यथा
वा गमनाय मर्ति चक्रे ताश्चैनं निन्युरङ्गनाः ( रामा० वा० अ० ९ )
इत्यादौ । यथा वा नयनं पारिजातस्य द्वारकां मम रोचते ( हरिवंश ०
अ० १२९ ) इत्यादौ ( वाच० ) ।
नरकः [क] दुःखविशेषः (मु० गु० ) । यथा नरके पतनं केन नरके
लिखितं यदि इत्यत्र । अत्र केनेत्यस्य ब्रह्मणेत्यर्थः । तथा एकस्य नरके
इति पदस्य नरस्य मनुष्यस्य के मस्तके इत्यर्थः । यथा वा नरकेसरिणः
स्मर्तुर्नरके पतनं कुतः इत्यादौ च । पौराणिकाश्च [ ख ] पापभोग-
स्थानविशेषो नरकः । स चासिवनक्षारादिः । यथा वेददूषयिता यश्च
वेदविक्रायकश्च यः । अगम्यागामी यश्च स्यात् ते यान्त्यसिवनं द्विज ॥
(पाद्मे० उत्तरख० अ० ४८ ) । यो गुरून वमन्येत स्वविद्याचार-
दर्पितः । स मृतः पात्यते क्षारसंज्ञकेधोमुखः पुमान् ॥ ( विष्णुपु०
अंश० २ अ० ६ ) इत्यादौ इत्याहुः ( वाच० ) ।
—
नषद्रव्यवृत्तिगुणत्वम् – द्रव्यत्वाश्रयवृत्तिः प्रतियोगिव्यधिकरणः यः अभावः
-
तत्प्रतियोगितानबच्छेदकगुणविभाजकोपाधिमत्त्वम् ( ल० व० ) । यथा
संख्यादिगुणानाम् । अत्र संयोगाद्यव्याप्यवृत्तिप्रतियोगिकात्यन्ताभावमादाय
संयोगादावव्याप्तिः स्यात् । अतः प्रतियोगिव्यधिकरण इत्युक्तम् ।
नवरात्रकम् - उपवासा द्यन्यतमनियमयुक्तकर्तृकप्रतिपदादिनवम्यन्तनवतिथ्य-
धिकरणकपूजारूपकर्म ( पु० चि० पृ० ६१) ।
न हि — (अव्ययसमुदाय: ) सकारणको निषेधः । यथा न हि सामानाधि-
करण्येन बाधसिध्योरुभयोः सत्योरनुमितिं कश्चिदम्युपैति (ग० हेत्वा०
सामा० उ० १ पृ० ४ ) इत्यादौ । यथा वा न स्मिन् युज्यते कर्म
किंचिदा मौजिबन्धनात् ( मनु० अ० २ श्लों० १७१) इत्यादौ ।