2023-02-20 00:55:24 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
४०३
नमः शब्दस्तु तदर्थयोतकः । तेन नारायणं नमस्कृत्येत्यादौ द्वितीया ।
उपपदविभक्तेः कारक विभक्तिर्बलीयसी इति न्यायात् । नमसो वाचकटवे
नमस्कृत्य ब्राह्मणेभ्यः इत्येवं नमः शब्दप्रयोगे चतुर्थी स्यात् । नमः खस्ति-
स्वाहास्वधालंवषड्योगाच ( पा० सू० २ ।३।१६ ) इत्यत्र त्यागार्थक-
नमनार्थकयोरुभयोर्ब्रहणम् ( शब्देन्दु ० ) ( ल० म०
कार० ४
व्यापारः ।
पृ० १०५ - १०६) । [ग] अपकृष्टत्वबोधनानुकूलो
यथा हरये नम इत्यादौ । अत्रापकर्षः प्रयोक्तृरूपविशेषनिष्ठो नमस्कार्या-
वधिक एव प्रतीयते । व्यापारश्च प्रयोक्तूनिष्ठः । स च व्यापारः कर-
शिरःसंयोगादिः ईदृशशब्द प्रयोगश्च । चतुर्थ्यर्थ उद्देश्यत्वम् । एवं च
हर्युद्देश्यक उक्तव्यापारः इति बोधः ( ल०म० का० ४ पृ० १०५ ) ।
[घ ] अयं मत्त उत्कृष्टः अहमस्मादपकृष्टः इति ज्ञानविशेषः इति परे
वदन्ति ( त० प्र० १ पृ० ३ ) ( म० वा० पृ० १० ) । नमस्कार-
स्त्रिविधः । कायिकः वाचिकः मानसिकक्ष ( मू० म० १ पृ० १०३)।
कायिकादिलक्षणानि च योगिनी० गन्धर्वतने उक्तानि । यथा जानु-
भ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् । क्रियते यो नमस्कारः
प्रोच्यते कायिकस्तु सः ॥ या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः ॥ इष्टमध्यानिष्टगतैर्मनो-
भिस्त्रिविधं भवेत् । नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ इत्यादि
( गन्धर्वतन्त्र ० ) ( वाच० ) । नमस्कारः प्रकारान्तरेण द्विविधः ।
कचित् ऐहिकः कचित् कारीर्यादौ आमुष्मिकः ( न्या० दी०
पृ० ४ ) ।
नय:- -१ मतम् ।
यथा न्यायनयः मीमांसकनयः इत्यादौ । २ नीति-
शास्त्रम् ( महि० टी० २१३ ) । यथा विषमोपि विगाह्यते नयः कृत-
तीर्थः पयसामिवाशयः ( किरा० स० २ श्लो० ३) इत्यादौ इति
नीतिशास्त्रज्ञा वदन्ति ।
-
नयनम् – [क] प्रापणम् । तच्चोत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापारः ।
यथा अजां प्रामं नयति प्रामं भारं वहतीत्यादौ नीयते अजा प्रामम्