This page has not been fully proofread.

न्यायकोशः ।
 
४०१
 
( अमर: ३ नाना० लो० २४७ ) ( विश्वः ) ।
 

 
७ विनिग्रहः ।
 
८ परकृतिः । ९ अधिकारः । १० विनयः । ११ संभ्रमः ( मेदिनी ) ।
१२ वाक्यारम्भः ( हैम० ) ।
 
ननु च – विरोधोक्तिः ( अमरः ३ अव्यय० श्लो० १४ ) ( वाच० }}
 
नन्दा- -या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी । नन्दा सा कथिता
वीर सर्वानन्दकरी शुभा ॥ ( पुरु० चि० पृ० १०४ ) ।
 
नन्दिका – प्रतिपत् ( पुरु० चि० पृ० ५८ ) ।
 
नपुंसकलिङ्गम् – (नाम) नपुंसकत्वेन परिभाषितं पदम् । यथा तट-
मित्यादि । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । सोत्र तट-
मित्यादौ क्लीबत्वेन सुबादेरमादेशादिः इति । वैयाकरणास्तु तटादिवस्तुगतं
नपुंसकत्वं पदार्थान्तरमेव । तच्च तटादिरूपप्रकृत्यैव बोध्यते । प्रत्ययानां
तु व्यञ्जकत्वमात्रम् इत्याहु: ( श० प्र० श्लो० ५३ पृ० ६८ ) । कचित्
विलक्षणसंस्थानरूपविशिष्टवाचकम् । यथा न प्राणि प्राप्नुयाद्दायम् इत्यादौ ।
अत्र लुप्तसुपैव ( न तु प्रकृत्या ) उपस्थितं विलक्षणसंस्थानरूपं नपुंस-
कत्वं प्राणिन्यनुभूयते इति विज्ञेयम् ( श० प्र० श्लो० ५३ पृ० ६९ ) ।
 
नमः - १ त्यागः । यथा एषोर्ध्यः शिवाय नमः इत्यादौ नमः शब्दार्थस्त्यागः
( ग० व्यु० का० ४ पृ० ९९ ) । शाब्दिकास्तु स्वस्वत्वनिवृत्त्यनुकूलो
व्यापारः । यथा एषोर्ष्यः शिवाय नमः इत्यादौ त्यागो नमः शब्दार्थः
इत्याहुः । शाब्दिकमतेत्र उद्देश्यत्वं चतुर्थ्यर्थः । तथा च शिवोदेश्यक-
त्यागविषयोर्ध्यः इति शाब्दबोध: ( ल० म० का० ४ पृ० १०५)।
अन्ये तु मम्रकरणकस्त्यागोर्थः । यथा पुष्पमिदं विष्णवे नमः इत्यादौ ।
अत्र प्रीत्युद्देश्यकत्वम् तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणकत्यागे
चतुर्थ्या बोध्यते । प्रकृत्यर्थस्य विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः ।
एवं च विष्णूद्देश्यकमन्त्रकरणकत्यागस्य कर्मेदं पुष्पम् इति बोधः ।
ब्राह्मणोद्देश्यकस्य च गवादित्यागस्य मन्त्रकरणकत्वे प्रमाणाभावात्
गौर्ब्राह्मणाय नमः इत्यादिको न प्रयोगः ( श० प्र० लो० ९२
 
५१ न्या० को०