This page has not been fully proofread.

न्यायकोशः ।
 
एतादृशार्थस्वीकारेण च अभावेन न पौनरुक्त्यम् इति ध्येयम् ( वाच ० ) ।
नक्कम् – प्रदोषाव्याक् तदिनाधिकरणकभोजनाभावे सति तदहोरात्रावयव-
प्रदोषाधिकरणकं भोजनम् (पु० चि० पृ० ४५ ) ।
 
४००
 
नगरम् – प्राकारपरिखान्वितं श्रेणीधर्मसंयुक्तं संस्थानम् (कैयटः ७।३।१४) ।
नच – शङ्कानिवारणार्थः । यथा नच स्वतः सिद्धविघ्नविरहवता कृतस्य
मङ्गलस्य निष्फलत्वापत्तिः इति वाच्यम् । इष्टापत्तेः । विघ्नशङ्कया तदा-
चरणात् (मु० १ मङ्गल० ) इत्यादौ ।
 
नञ्तत्पुरुषः - (तत्पुरुषः ) नञर्थबोधकतया नञ्पदघटितः समासः ।
यथा अघटः पट इत्यादौ । अत्र घटपदं लक्षणया घटसंबन्ध्यर्थकम् ।
घटप्रतियोगिकम् इत्यर्थकम् इति यावत् । नञ्पदं च अन्योन्याभावे
शक्तमेव ( न्या० म० ४ पृ० १४ ) । एवं च घटप्रतियोगिक भेदवान्
पटः इति वाक्यार्थबोधः । अघटं भूतलमित्यादौ नञो घटभिन्ने लक्षणा । न
कलअं भक्षयेदित्यादौ बलवदनिष्टजनके लक्षणा (तर्का० ४ पृ० १२ ) ।
 
नतिः - १ नमस्कारः ( ग० व्यु० कार० ४ पृ० १०१ ) । २ चन्द्रा-
र्ककक्षयोर्याम्योत्तरयोरन्तरं नतिः इति ज्योतिर्विद आहुः । ३ ऊर्ध्व-
स्थितस्याधः पतनं नतिः इति काव्यज्ञा वदन्ति ( वाच० ) ।
 

 

 
ननु – १ प्रश्नः । यथा ननु गमिष्ये इत्यादौ । २ अवधारणम् । यथा
उपपन्नं ननु शिवम् ( रघु० १९६० ) । अत्र उपपन्नमेवेत्यर्थः
( टी० मल्लिनाथ: १९६० ) । यथा वा त्वया नियम्या ननु दिव्य-
चक्षुषा ( रघु० स० ३ श्लो० ४५ ) इत्यादौ । ३ आमन्त्रणम्
( संबोधनम् ) । यथा ननु मां प्रापय पत्युरन्तिकम् ( कुमार० ४ । ३२ )
इत्यादौ । ननु हे वसन्त इत्यर्थः ( टी० मल्लिनाथ: ४ । ३२ ) ।
४ आक्षेप (शङ्का ) । यथा नन्वेवं धनाद्यर्जनस्य कुञ्जरशौचवत् दुःखा-
निवर्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह ( सांख्य० प्र० भा० अ० १
सू० २ - ३ ) इत्यादौ ( वाच० ) । ५ अनुज्ञा । यथा ननु गच्छेत्यादौ ।
६ अनुनयः ( सान्त्वनम् ) । यथा ननु कोपं मुञ्च दर्या कुरु इत्यादौ