This page has not been fully proofread.

न्यायकोशः ।
 
३९९
 
२ उपमा । यथा तिष्ठा देवो न सविता ( श्रुतिः ) वयो न बसतीरुप
( ऋ० सं० १ । २५ ) इत्यादौ । ३ नकारस्वरूपो वर्णः । यथा दो धः
सौख्यं मुदं नः ( बृ० व० टी० ) इत्यादौ ( वाच० ) । अत्र केचित्
अत्यन्ताभाव एव नञः शक्तिः । अन्योन्याभाबादौ तु लक्षणा
इत्याहु: ( शा० भा० ( वाच० ) । अत्रेदमवधेयम् । न घटः पट
इत्यादौ नामार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इति व्युत्पत्तिविरोधापत्ति-
वारणाय अघटः पट इत्यादौ समानविभक्तिकत्वेनाभेदान्वयबोधोपपत्तये
च नञोभाववति लक्षणा घटपदस्य च घटप्रतियोगिके लक्षणा स्वीकार्या
इति केचित् । परे तु नामार्थयोः इति व्युत्पत्तौ अव्यय निपात एतदति -
रिक्तेति नाम्नि विशेषणानञः अभाववति घटपदस्य घटप्रतियोगिके च न
लक्षणाङ्गीकार्या। किंतु नञः संसर्गाभावमात्रे अन्योन्याभावमात्रे च शक्तिरेव
इति प्राहुः ( न्या० म० ४ पृ० १४-१५ ) ( त० प्र० ख० ४
पृ० ६०-६१ ) । अन्ये तु नामार्थयोः इति व्युत्पत्तिर्नाभ्युपगन्तव्या ।
भूतलं घटः राजा पुरुषः इत्यत्र आधेयतासंबन्धेन स्वत्वसंबन्धेन च
घटपुरुषपदार्थयोर्भूतलराजपदार्थान्वयबोधतात्पर्येण तादृशप्रयोगापत्ति-
वारणाय यथाक्रमं सप्तम्यन्तभूतलादिसम भिव्याहारषष्ठ्यन्तराजादिपद-
समभिव्याहारयोः पूर्वोक्तान्वयबोधं प्रति कारणत्वमङ्गीकर्तव्यम् । एवं च
पूर्वोक्तस्थलयोः न घटः पट: अघटः पटः इत्याद्योः नञ्पदादौ न लक्षणा
इत्याहुः ( ग० व्यु० का० १) । अन्यत्र च नञर्थाः षडुक्ताः ।
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट्
प्रकीर्तिताः ॥ इति । अत्र यथाक्रममुदाहरणानि । यथा अनिक्षुः
शर इत्यादौ सादृश्यं नञर्थः । भूतले घटो नास्तीत्यादावत्यन्ताभावः ।
अघटः पट इत्यादावन्यत्वम् । अनुदरमुदरं तरुण्या इत्यादौ स्वरूप-
स्वम् । अब्राह्मणो वार्धुषिक इत्यादावपकृष्टत्वम् ( अप्राशस्त्यम् ) ।
असुरो दैव्य इत्यादौ विरोध: ( श० प्र० श्लो० ३९ पृ० ५० ) ।
अन्यत्र चोक्तम् नञभावे निषेधेन स्वरूपार्थेप्यतिक्रमे । ईषदर्थे च साश्ये
तद्विरुद्धतदन्ययोः ॥ इति । निषेधेन काका स्वरूपार्थे प्रकृतार्थे इत्यर्थः ।