This page has not been fully proofread.

न्यायकोशः ।
 
शारदातिलके च तस्य ध्वनेरुत्पत्यादिप्रकारादिकमुक्तम् । यथा सा
प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः । शक्तिं ततो ध्वनिस्तस्मान्नाद-
स्तस्मान्निरोधिका ॥ ततोर्धेन्दुस्ततो बिन्दुस्तस्मादासीत्परा ततः । पश्यन्ती
मध्यमा बाचां वैखरी ज्ञानजन्मभूः ॥ ( शारदाति० ) इति । अत्रायं
विशेषः । अनेकवर्णात्मकस्य कलशादिपदस्य श्रावणप्रत्यक्षं न संभवति ।
आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन तन्मेलनात्मनः पदस्य
ग्रहीतुमशक्यत्वात् । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितेनानुभूयमान-
चरमवर्णेन श्रोत्रे व्यञ्जनाख्यो व्यापारः (शाब्दिकादिमतेन) जन्यते ।
तेनैष व्यापारेण नष्टवर्णघटितमपि पदं ( वैयाकरणमते स्फोटपरिभाषितं
पदम् ) श्रोत्रेण साक्षात्कयते इति । चरमवर्णात्मनि शब्दे ध्वनिव्यवहारः
इति महेश्वरः (बाच० ) । २ उत्तमं काव्यं ध्वनिः इत्यालंकारिका
आाडुः ( प्रतापरुद्रे० प्र० २ ) । अत्रोक्तं मम्मटभट्टेन इदमुत्तममतिशयिनि
व्यङ्ग्ये वाघ्याद् ध्वनिर्बुधैः कथितः ( काव्यप्र० उ० १ श्लो० ५ ) इति ।
 
३९८
 
न.
 
न - १ अभावः ( न्या० म० ४ पृ० १४ ) । स च संसर्गाभाव
अन्योन्याभाव एतदन्यतरात्मकः ( तर्का ० ४ पृ० १२ ) । यथा
भूतले घटो नास्ति ( दीधि ० ) घट: पटो न भवति इत्यादौ ।
यथा वा नैकः सुप्तेषु जागृयात् इत्यादौ निषेधः । भूतल इत्यत्र सप्तम्या
वृत्तित्वमर्थः । तस्य च नञर्थात्यन्ताभावेन्वयः । एवं च भूतलवृत्ति-
र्घटत्वावच्छिन्नप्रतियोगिताकोत्यन्ताभावः इति बोधः । केचित्तु भूतल-
वृत्तिर्योत्यन्ताभावः तत्प्रतियोगी घटः इति बोधः इत्याहुः । अन्ये तु
सप्तम्या निरूपितत्वम् असधातोर्विद्यमानत्वम् आख्यातस्याश्रयत्वम् अर्थः ।
तथा च भूतलनिरूपितविद्यमानत्वाश्रयो घटाभावः इति बोधः इत्याहुः
( त० प्र० ४ पृ० ६१ ) ( ग० व्यु० १ ) ( न्या० म० ४
पृ० १५ ) । घटः पटो नेव्यत्र घटः पटमेदवान् भवति इति बोधः ।
नर्थो द्विविधः प्रसज्यप्रतिषेधः पर्युदासश्चेति ( म० प्र० पृ० ४८ ) ।