2023-02-20 00:55:24 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
३९७
[ग] उत्पत्तेरनन्तरं समवायिकारणे कार्यस्य संसर्गाभाव: ( त० कौ ०
पृ० २१ ) । तदर्थश्च यथा इह कपाले घटो ध्वस्तः इत्यादी उत्पत्तेर-
नन्तरम् ( प्रतियोगिभूतस्य घटादेरुत्पत्तेरनन्तरम् ) जन्यः समवायिकारणे
(घटस्य समवायिकारणे कपाले ) वर्तमान कार्यस्य ( घटादेः ) संसर्गा-
भावः ( तदाख्यः अभावः ) इति । अत्रायं नियमः ध्वंसप्रागभावौ
स्वप्रतियोगिसमवायिदेशे वर्तेते इति । यथा इह कपाले घटो ध्वस्तः
इति प्रतीतिसाक्षिकः अभावः ( प्र० प्र० पृ० २३ ) । यथा वा
तदप्यध्वंसदासाद्य माहेन्द्रं लक्ष्मणेरितम् इत्यत्र प्राणा दध्वंसिरे गात्रं
तस्तम्भे च प्रिये हते (भट्टिः ) इत्यादौ च । अत्र वैयाकरणाः ध्वंसस्या-
तीतत्वाभावेपि फलव्यापारयोर्धात्वर्थत्वेन तदुत्पस्पनुकूलव्यापारस्य कारण-
विशेषसंयोगस्यातीतत्वात् ध्वस्तः इति व्यवहार उपपद्यते इत्याहुः ।
नैयायिकमते नाशमात्रस्यैव धात्वर्थत्वेपि तदुत्पत्तौ लक्षणा । तस्याश्चा-
तीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादिप्रयोगः । अत्र कर्तृत्वं प्रतियोगित्वम् ।
तच नाशान्वयि इति । तथा च वर्तमानायुत्पत्तिकनाशप्रतियोगी घटः
इत्यन्वयबोध: ( वाच० ) । अतीतावस्था ध्वंसः इति सांख्या आहुः ।
तिरोभावावस्था इति शाब्दिकाः सांख्याश्चाहुः ( ल० म० ) । अत्र सूत्रम्
नाश: कारणलयः इति ( सांख्य० अ० १ सू० १२१ ) । कारणे लय
इत्यर्थः । आत्यन्तिकनाशश्च कारणेन सह नाश इति भेदः ( वाच० ) ।
ध्वनिः – ( शब्दः ) १ तारत्वादिधीहेतुः शब्दविशेषः । यथा उन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे ( माघ० स० ६ श्लो० २०) इत्यादौ ।
अत्रोच्यते । ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविशेषमनधिगच्छतः कर्ण-
पथमवतरति प्रत्यासीदतश्च तारत्वादिविशेषमवगमयति इति ( शारीर ० >
( वाच० ) । स च ध्वनिर्वैयाकरणमते द्विविधः । प्राकृतः वैकृतश्चेति ।
अत्रोक्तम् भर्तृहरिणा स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थिति-
मेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥ ( वाक्यप० ) इति । अत्र विवेकः ।
स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वम् । चिरचिरतरकालस्थितौ तु
प्राकृतध्वनिजातवैकृतध्वनेः कारणत्वम् इति ( शब्दार्थरने ) ( वाच० ) ।