This page has not been fully proofread.

न्यायकोशः ।
 
३९५
 
नासाप्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृतिके बाह्ये वा देशे
चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा ( सर्व० सं० पृ० ३८२
पातञ्ज० ) । ४ धारणा मनसो ध्येये संस्थितिर्ध्यानषद्विधा ( अग्निपु०
अ० ३७४ ) इति पौराणिका आहुः । ५ जलसूचको वायुविशेष-
धारणाद्यात्मको योगभेदः इति ज्योतिषज्ञा आहुः ( बृ० सं० अ० २२ ) ।
 
धारणिकः - अधमर्णः ।
 
धूमः - १ सार्हेन्धनवह्निजातः मेघाञ्जनयोर्जनको द्रव्यविशेषः । यथा
पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टघूमत्वेन च हेतुत्वे पर्वतो
वह्निमान् विशिष्टघूमात् इत्यादौ पर्वतादेः काञ्चनमयत्वविरहो न दोषः
( दीषि० २ पृ० १७९ ) इत्यत्र । अत्र विशिष्टघूमध वहिशून्य-
देशान्तरवृत्तिधूमव्यक्तिव्यावर्तकविशेषणावच्छिन्नो घूमः । तादृशविशेषणं
तु वह्निमद्वृत्तित्वादि ज्ञेयम् । यथा वा अभ्रंलिहां घूमलेखां पश्यति
(मु० २) सघूमदीप्ताग्निरुचीनि रेजुः (भट्टिः ) इत्यादौ च धूमः ।
२ अग्निमान्द्यसूचको वायुविशेषः ( ढेकर ) इति मिषजो वदन्ति ।
३ ज्योतिर्विदस्तु घूमकेतुः इत्याहुः । ४ उल्कापातश्चेति काव्यज्ञा
वदन्ति ( वाच० )।
 
-
 
धृतिः - १ गुरुत्ववतां पतनाभावः ( कु० ५/१ टी० हरिदासः )
( दि० १११ पृ० १९ ) । यथा कार्यायोजनधृत्यादेः पदात्प्रत्ययतः
श्रुतेः ( कु० ५/१ ) इत्यादौ । २ अष्टादशाक्षरपादकच्छन्दोमात्रम् इति
वृत्तशास्त्रज्ञा वदन्ति । ३ व्यभिचारिभावविशेषः इत्यालंकारिका आहुः ।
अत्रोच्यते ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास-
सहासप्रतिभादिकृत् ॥ इति । ४ मौहूर्तिकास्तु विष्कम्भाद्यन्यतमयोग -
विशेषः इत्याहुः । ५ गणकाच अष्टादशसंख्यायुक्तम् द्रव्यादि इत्याहुः ।
६ गौर्यादिषोडशान्यतममातृकाविशेषः इति संस्कारकुलाचारज्ञा आहुः ।
७ मानसधारणाविशेषः इति योगशास्त्रज्ञा आहुः । ८ धैर्यम् इति
काव्यज्ञा आहुः ( वाच० ) ।