2023-02-20 00:55:23 by ambuda-bot
This page has not been fully proofread.
३९४
न्यायकोशः ।
श्चेति । तत्र नामप्रकृतिकः क्यच् क्यङ् इत्यादिः । धातुप्रकृतिकस्तु
सन् यङ् इत्यादिः ( श० प्र० श्लो० १०७ पृ० १६४ ) ।
धारणम् - १ [ क ] द्रव्यान्तरदानाम्युपगम पूर्वकपरदत्तद्रव्यादानजन्या-
दृष्टविशेषवत्त्वम् । यथा विप्राय शतं धारयतीत्यादौ धात्वर्थः । अत्रायं
भावः । ऋणग्रहणेनाधमर्णनिष्ठः परिशोधननाश्योदृष्टविशेषो जन्यते ।
तेनैवादृष्टेन ऋणमपरिशोभ्य मृतस्य नरकादिकम् इति । अत्र धारेरुत्त-
मर्ण: (पा० सू० १४१३५) इत्यनेन धनिकविप्रादेः संप्रदानता ।
तथा कर्तृत्वं चतुर्थ्यर्थः । तस्य धात्वर्थघटकादानेन्वयः ( ग० न्यु०
का० ४ पृ० ९६-९७ ) । [ ख ] केचित्त पुनर्दानमङ्गीकृत्य द्रव्य-
ग्रहणम् इत्याहुः ( का० व्या० पृ० ९ ) । [ग] पाणिनीयास्तु
ऋणग्रहणम् । यथा गुरवे गां धारयते इत्यादौ धारेरर्थः इत्याहुः ।
अत्र दत्तत्वं चतुर्थ्यर्थः । तथा च गुरुदत्त गामृणत्वेन गृह्णाति इत्याकार-
स्तत्र वाक्यार्थः ( श० प्र० लो० ६९ पृ० ८६ ) । २ गृहावस्थितिः।
यथा गुरवे गां धारयते इत्यादौ इति कालापाः । अत्र धृङा गृहावस्थितिः
द्वितीयया तदन्वितं कर्तृत्वम् चतुर्थ्या च तन्निविष्टगृहान्वितं संबन्धित्वम्
उपस्थाप्यते । तेन गोकर्तृकाया गुरुसंबन्धिगृहावस्थितेरनुकूलव्यापारवान्
इत्याकारको बोधः । धातूत्तरणिचा व्यापारबोधनात् इति भावः (श० प्र०
लो० ६९ पृ० ८६ ) । शाब्दिका अपि अवस्थितिः भक्ताय धारयति
मोक्षं हरिरित्यादौ धारेरर्थः इत्याहुः । अत्र धृड् अवस्थाने इति धातोर्णिचा-
वस्थानानुकूलव्यापारो धारेरर्थः । तदर्थावस्थित्याश्रयसंबन्धी संप्रदानम् ।
धारेरुत्तमर्णः इति सूत्रात् । तथा च हरिकर्तृको भक्तसंप्रदानको मोक्ष-
कर्मकाबस्थित्यनुकूलो व्यापारः इति बोध: ( ल० म० सुब० कार० ४
पृ० १०३ ) । ३ प्राणस्य पूरकरेचककुम्भकैर्निरोधरूपश्चित्तवशीकरणं
प्राणायामविशेषः ( सांख्यप्र० मा० अ० ३ सू० ३३ ) । यथा
धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ( याज्ञ ० ) इत्यादौ इति सांख्या
आहुः । देशबन्धश्चित्तस्य धारणा ( पात० सू० पाद ३ सू० १ ) इति
योगिनो वदन्ति ( गौ० वृ० ४।२।४४ ) । नामिचक्रहृदयपुण्डरीक-