This page has not been fully proofread.

न्यायकोशः ।
 
कर्मकत्वेन विलक्षणव्यापारमात्रे शक्तिः न तु तत्र फलस्यावच्छेदकत्वम्
इति न पतेः सकर्मकत्वापत्तिः । अत एव फलान वच्छिन्नविलक्षणव्यापार-
वाचित्वम् धातोरकर्मकत्वम् । फलावच्छिन्नविलक्षणव्यापारवाचित्वम्
सकर्मकत्वम् । तच्च फलं यदोभयकर्मान्वितं तदा द्विकर्मकत्वम् । यथा
चैत्रोश्वं ग्रामं नयतीत्यादौ नयत्यादेः । अश्वग्रामोभयनिष्ठसंयोगजनकनयन-
कर्ता इति बोधात् । अत्र ग्रामो मुख्यं कर्म । अश्वस्तु गौणम् । अकथितं
च इत्यनुशासनात् ( म० प्र० ४ पृ० ५६ ) (न्या० म० ४ पृ० २१ )
इत्येके । अत्र वैयाकरणा अप्याडुः । अवच्छिन्नपदस्य संबन्धपरत्वेन
कर्मीभूतफलसंबन्धिव्यापारार्थकत्वस्य सुस्थत्वात् अकर्मकाणां फलार्थत्वा-
नङ्गीकारेणातिव्याप्त्यव्याप्योरनवकाशः इति ( वै० सा० द० ) । फला-
वच्छिन्नविलक्षणव्यापारश्च । [क] धातूपनीत फलानुकूलसजातीयविजा-
तीयव्यापारप्रचयः ( त० प्र० ख० ४ पृ० ५० ) । [ ख ] फलानु-
कूलत्वोपलक्षित विलक्षणव्यापारः ( न्या० म० ४ पृ० २०) । इत्थं
)
च उपलक्षितत्वविबक्षणेन कृष्णलं ( यवत्रयमितं सुवर्णम् ) श्रपयेदित्य-
त्रोष्णीकरणमात्रे धातोर्न लक्षणा । रूपादिपरावृत्त्यवच्छिन्नाधःसंतापनस्य
श्रपणस्य बाधेपि तदुपलक्षिताधःसंतापनस्य तत्राबाधात् इत्यवघेयम्
( म० प्र० ४ पृ० ५६ ) । [ग] शाब्दिकास्तु फलानुकूलो यत्न-
सहितः व्यापारः इत्याहुः ( ल० म० ) । अत एव गम्यादीनां सकर्म-
कत्वमुपपद्यते ।
 
३९३
 
-
 
P
 
धात्वंश: – ( प्रत्ययः ) [ क ] सुबर्थानन्वितयादृशस्वार्थको यस्तिङन्यः
प्रत्ययः स तादृशार्थे धात्वंशप्रत्ययः । यथा पुत्रीयतीत्यादौ क्यच् ।
पचतीत्यादौ सुबर्थानन्वितकृत्यर्थकोपि तिबादिर्न तिङन्यः इति न
तत्रातिप्रसङ्गः । पुत्रीयतीत्यत्र क्यजाद्यर्थस्येच्छादेर्न सुबर्थेन्वयः । किंतु
तिङर्थे इति तत्र लक्षणसमन्वयो बोभ्यः ( श० प्र० श्लो० १०६
पृ० १६४ ) । [ ख ] धात्वन्तावयवरूपः प्रत्ययः । यथा सनादिप्रत्ययः
पिपक्षादिधात्वन्तभागत्वाद्धात्वंशप्रत्ययो भवति ( श० प्र० श्लो० १०६
पृ० १६४ ) । धात्वंशप्रत्ययो द्विविधः । नामप्रकृतिकः धातुप्रकृतिक-
५० न्या० को०