2023-02-20 00:55:23 by ambuda-bot
This page has not been fully proofread.
३९२
न्यायकोशः ।
फलव्यापारोभयं धात्वर्थ इत्यत्रोक्तम् फलव्यापारयोर्षातुराश्रये तु तिङः
स्मृताः । फले प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ॥ इति (वै० सा०
धात्वर्थ ० ० पृ० ७ ) । अस्यायमर्थः । फलेति । फलं व्यापारश्च धात्वर्यः ।
आश्रये इति । फलाश्रयः कर्म । व्यापाराश्रयः कर्ता । तौ तिथेँ । फले
इति । विक्लित्त्यादिफलं प्रति व्यापारो विशेष्यः । तिर्थ इति । तिर्थः
कर्तृकर्मसंख्याकालाः । तत्र कर्ता व्यापारे विशेषणम् । कर्म फले
विशेषणम् । संख्या तु कर्तृप्रत्ययार्थे कर्तरि कर्मप्रत्ययार्थे कर्मणि
विशेषणम् । समानप्रत्ययोपात्तत्वात् इति । एवं च वैयाकरणमते देवद-
त्तस्तण्डुलं पचतीत्यादौ देवदत्ताभिन्नैककर्तृकस्तण्डुलाभिन्न
कर्मवृत्तिविलित्त्य-
नुकूलो व्यापारः इति क्रियामुख्यविशेष्यको बोधः । देवदत्तेन तण्डुलः
पच्यते इत्यादौ च देवदत्ताभिन्नकर्तृको यो व्यापारस्तजन्या तण्डुला-
भिन्नैककर्मनिष्ठा विक्कित्तिः इति बोधः । देवदत्तस्तण्डुलं पचतीत्यादौ
फलं विक्लित्त्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया ।
अयं च व्यापारः फूत्कारत्वाधःसंतापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः
( वै० सा० धात्वर्थ ० पृ० ९ - १२ ) । नैयायिकमते तु देवदत्तस्तण्डुलं
पचतीत्यादौ तण्डुलवृत्तिविक्लित्यनुकूलव्यापारानुकूलकृतिमानेकत्व विशिष्टो
देवदत्तः इति प्रथमान्तार्थमुख्य विशेष्यको बोधः । देवदत्तेन तण्डुलः
पच्यते इत्यादौ च देवदत्तसमवेता या कृतिः तज्जन्यो यो व्यापारः तज्जन्या
या विकित्तिः तदाश्रय एकत्व विशिष्टस्तण्डुलः इति बोधः । अत्रायं
विशेषः । पृथक्शक्त्या विशिष्टशक्त्या वा फलव्यापारौ धातुना बोध्येते इति
वैयाकरणमतम् । गदाधरादिनवीनमते तु पृथक्शत्त्यैव फलव्यापारौ
बोध्येते इति । ( ४ ) नव्यास्तु न्यायभास्करकृदादयः फलावच्छिन्न-
विलक्षणव्यापार एव कर्त्राख्यातसमभिव्याहारे धात्वर्थः । कर्मप्रत्ययार्थस्तु
(द्वितीयार्थस्तु ) आश्रयता ( निष्ठत्वम्) । सा च धात्वर्यैकदेशे फलेन्वेति
इति । कर्माख्यातसमभिव्याहारे तु व्यापारावच्छिन्न फलमेव धात्वर्थः इति
च प्राहुः ( म० प्र० ४ पृ० ५६ ) ( श० प्र० श्लो० ७२ पृ० ९३ )
( ल० म० ) । एतन्मते फलस्यावच्छेदकत्वेन धात्वर्थप्रविष्टत्वात् पतेर-