2023-02-20 00:55:23 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२९
फलानवच्छिन्नब्यापारवाचकत्वमकर्मकत्वम् इति अकर्मकत्वस्य लक्षणं
बोध्यम् । अकर्मकक्रियात्वे चत्वारो हेतवः हरिणा दर्शिताः ।
यथा धातोरर्थान्तरे वृत्तेर्षात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविषक्षातः कर्म-
णोकर्मिका क्रिया ॥ इति । एवं च अकर्मकोपि धातुर्हेतुचतुष्टया-
घीनाकर्मकक्रियार्थत्वाच्चतुर्विधः इत्यलं विस्तरेण ( वाच० ) । धातोरर्थश्च
मतविशेषेषु यथा ( १ ) फलमेव धातोरर्थः । तदनुकूलक्रिया त्वाख्यातेन
कर्त्रादावनुमाव्यत इति मण्डनमिश्र आइ ( श० प्र० लो० ९५
पृ० १४०) । (२) क्रियामात्रं ( केवलं व्यापारमात्रम् ) धात्वर्थः ।
फलं तु कर्मप्रत्ययेन बोध्यते इति प्रायः रत्नकोशकृत्प्रभृतयः आहुः
(चि० ४) । एतन्मते द्वितीयासाकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च
धातूनां सकर्मकत्वव्यपदेशः । न तु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः ।
ज्ञाप्रभृतावव्याप्तत्वात् इति ज्ञेयम् ( श० प्र० श्लो० ७२ पृ० ९३) ।
( ३ ) फलं व्यापारश्चैतदुभयं धात्वर्थः इति शाब्दिका आहुः । अत्र
फलत्वं च तद्धात्वर्थजन्यत्वप्रकारकप्रतीतिविषयत्रे सति तद्धातुजन्योप-
स्थितिविषयत्वम् तद्धात्वर्थत्वं वा । अत्र धात्वर्थव्यापारेतिप्रसङ्गनिरासाय
सत्यन्तम् । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्य
दलम् ( वै० सा० द० धात्व० पृ० ८) । मञ्जूषाकृतस्तु
कर्तृप्रत्ययसममिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यता-
निरूपितप्रकारताबत्त्वम् । अत्र जन्यता चारोपिता अनारोपिता चेत्यन्यत् ।
विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागसंयोगयोः फलववारणायो-
भयदलम् । कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यत्वम् इत्याहुः
( वै० सा० द० धात्व० पृ० ८ ) । तथाहि चैत्रो ग्रामं गच्छतीत्यादौ
प्रामनिष्ठसंयोगानुकूलव्यापारकर्ता चैत्रः इति बोधात् संयोगात्मकफलस्य
व्यापारनिरूपितप्रकारत्वम् । चैत्रेण ग्रामो गम्यत इत्यादौ तु चैत्रसमवेत-
व्यापारजन्यसंयोगाश्रयो ग्रामः इति बोधात् संयोगस्य व्यापारनिरूपित-
विशेष्यत्वम् इति । अत्र व्यापारत्वं च पदान्तरसमभिव्याहाराप्रयोज्य-
साध्यत्वप्रकारकप्रतीतिविषयत्वम् ( वै० सा० ८० धात्वर्थ० पृ० ८) ।
-