This page has not been fully proofread.

३९०
 
न्यायकोशः ।
 
सू० ११३ । १ ) इति । भ्वादयो द्वाविंशतिशतविधा धातवः ( २२०० )
इति शाब्दिका वदन्ति । ( २ ) सूत्रमात्रोपात्तो धातुः सौत्र इत्युच्यते ।
यथा स्कम्भुजुप्रभृतिकः । (३) स्वावयवलम्यार्थस्य बोधको धातुः
प्रत्ययान्त इत्युच्यते । यथा पाचि पिपक्षा तितिक्षा इत्यादिः इति । आन्दो-
लप्रेङ्खोलादेर्लोकिकस्यापि सत्त्वाच्चतुर्विध एष धातुरिति बोपदेव आह ।
लौकिकस्यापि सौत्रेन्तर्भाव इति नाधिक्यम् इत्यन्य आहुः । परस्मै-
पदित्वात्मनेपदित्वोभयपदित्वभेदेनापि धातुस्त्रिविधः । तत्तलक्षणं च यो
धातुः खोपस्थाप्यस्य यादृशार्थस्य यत्पदोपस्थाप्ये कर्तृत्वेन्वयबोधं प्रति
समर्थः स धातुस्तत्पदी । यथा ( १ ) गमभूप्रभृतयः स्वार्थस्य गत्यु-
त्पत्तिप्रभृतेर्मुख्ये गौणे वा परस्मैपदार्थ एव कर्तृत्वेन्वयं प्रति प्रभवः
इति परस्मैपदिनः । (२) संगच्छते भवते इत्यादितः संगतिप्रात्यादि-
कर्तृत्वाबगमात् तादृशार्थे आत्मनेपदिन एव ते । (३) यजति करोति
इत्यादित इव यजते कुरुते इत्यादितोपि यागादिकर्तृत्वस्यावगतेर्यागाद्यर्थे
यजि कृञ् इत्यादिरुभयपदी ( श० प्र० श्लो० ५७-५८ पृ० ७१ ) ।
प्रकारान्तरेणापि धातुर्द्विविधः । सकर्मकः अकर्मकच इति । तत्र
सकर्मको द्विविधः । एककर्मकः द्विकर्मकश्च । तत्रैककर्मकश्च एककर्मा-
न्वितस्वार्थबोधकः । यथा गम्यादिरेककर्मकः । द्विकर्मकोपि द्विविधः ।
द्विकर्मान्वितैकव्यापारार्थकः द्विकर्मान्वितद्विव्यापारार्थकश्च । तत्राद्यो
दुह्यादिः । द्वितीयस्तु णिजन्तः इति । तत्र द्विकर्मकत्वं तु कर्मद्वय-
साकाङ्क्षक्रियाबोधकत्वम् ( का० वा० पृ० २) । णिजन्ते च धातु-
नैकव्यापारोभिधीयते । द्वितीयस्तु व्यापारः णिचा । व्यापारद्वये च ईप्सित-
कर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वयः । तथात्वं च गम्यादी -
नाम् इति बोध्यम् । पच्यादीनां तु नैवम् । तद्योगे प्रयोज्यकर्तुः कर्मसं-
ज्ञाया अभावेन व्यापारद्वये कर्मद्वयान्वयाभावात् इति विवेकः ( वाच० ) ।
अत्रेदं बोध्यम् । सकर्मकत्व अकर्मकत्व एतदुभयधर्मविशिष्टोपि धातुर्भवति ।
यथा सकर्मकाणां गम्यादीनां कर्मणः कर्तृत्वविवक्षया अकर्मकत्वमपि इति
त्रिविधोपि धातुरस्ति इत्यपि सिध्यति । अकर्मकस्तु कर्मानन्वितक्रियार्थकः ।