This page has not been fully proofread.

न्यायकोशः ।
 
३८९
 
शास्त्रज्ञाः तान्त्रिकाचाडुः । ५ आकाशादिमहाभूतानि इति पौराणिकाः ।
६ इन्द्रियाणि रूप रसगन्धस्पर्शशब्दाश्च धातुशब्दवाच्या भवन्तीति
शास्त्रान्तरविद आहुः ( वाच० ) । ७ शब्दप्रकृतिः [ क ]
यः शब्दः स्वोत्तरतृचः शक्येर्थे स्वोपस्थाप्यस्य यादृशार्थस्यान्वयबोधं
प्रति समर्थः स तादृशार्थे धातुरुच्यते । यथा पच पिपक्ष इत्यादयो
धातवः । अत्र धातूनाम् अनेकार्थकत्वम् इति सर्वे सर्वार्थवाचकाः इति
च शाब्दिकादीनां राद्धान्तोनुसंधेयः । अत्र अनेकार्थकत्वं च व्याकरण-
कोश इत्याद्यभियुक्तकृततत्तदर्थकत्वम् ( त० प्र० ख० ४ पृ० ७० ) ।
सर्वार्थवाचकत्वं च स्वप्रवृत्ति निमित्तसमानाधिकरणकृत्स्नधर्माश्रयवाचकत्वम् ।
धातुलक्षणं च क्रियावाचित्वे सति भ्वादिगणपठितत्वम् ( ल० व० ) ।
पचपिपक्षादयो हि शब्दा: पक्त पिपक्षितृ इत्यादिनामनिविष्टाः खोत्तर-
तृजथे कर्त्रादौ स्वोपस्थाप्यानां पचनपाकेच्छादीनामन्वयधियं प्रति प्रभवो
भवन्तीति लक्षणसमन्वयोत्र बोध्यः ( श० प्र० श्लो० ५५ पृ० ७० ) ।
[ ख ] यः शब्दः स्वान्ते कृच्चिन्तनं विना सुबर्थे यादृशस्य निजार्थस्या-
न्वयधियं प्रत्यसमर्थः स एव तादृशार्थको धातुः । यथा पाकं कुरु संपदं
पश्येत्यादौ । सुबर्थेपि धात्वर्थस्यान्वयवादिनां प्राचां मते नेदं धातुलक्षणम्
इति ज्ञेयम् । अत्र हि पचादिको धातुः स्वोत्तरस्य भावकृतः घञ् किप्
इत्यादिप्रत्ययस्य प्रतिसंधानदशायामेव सुबर्थकर्मत्वादौ स्वार्थस्य पचनादेर-
न्वयबोधमाधत्ते न त्वन्यथेति लक्षणसमन्वयः ( श० प्र० लो० ५५ ५०
७० ) । धात्वर्थप्रकारकबोधं प्रति धातुप्रकृतिकप्रत्ययजन्योपस्थितेर्हेतुत्वात् ।
[ग] शाब्दिकास्तु क्रियावाचको भ्वादिगणपठितः शब्दविशेषः इत्याहुः ।
अत्र वा इत्याद्यव्ययानामपि गणपठितत्वेन धातुत्वापत्तिः । तद्वारणाय
क्रियावाचित्वविशेषणम् । हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिः ।
तद्वारणाय गणपठितत्वं विशेषणं दत्तम् ( वाच० ) । [ घ ] भाव-
वचनो धातुः ( सर्व० सं० १० ३०५ पाणि० ) । धातुत्रिविधः ।
मूलधातुः सौत्रः प्रत्ययान्तश्चेति । तत्र ( १ ) गणपठितो धातुर्मूलधातु-
रुच्यते । यथा भूपचप्रभृतिः । अत्र सूत्रम् भूवादयो धातवः ( पा०
 
-