This page has not been fully proofread.

३८८
 
न्यायकोचः ।
 
गृहस्थस्य शालीनयायावरवृत्युपार्जितैर्भूतमनुष्यदेवपितृषु ब्रह्माख्यानां
पञ्चानां महायज्ञानां सायंप्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां
नित्यानां शक्तौ विद्यमानायायाधेयादीनां हविर्यज्ञसंस्थानाम् अग्निष्टोमा-
दीनां च सोमयज्ञसंस्थानां क्रत्वन्तरेषु च ब्रह्मचर्यम् अपत्योत्पादनं च ।
ब्रह्मचारिणो गृहस्थस्य वा प्रामाद्बहिर्निःसृत्य वनेषु वासः वल्कलाजिन-
केशश्मश्रुनखरोमधारणम् वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य वान-
प्रस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा
संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थ परिसंख्याना-
द्योगस्य साधनं प्रवजितस्य इति । दृष्टं च प्रयोजनमनुद्दिश्यैतानि साघ-
नानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिः इति ( प्रशस्त
 
उ० पृ० ३५-३६ ) ।
 
धर्मशास्त्रम् – धर्मप्रतिपादकं मन्वादिप्रणीतं शास्त्रम् । अत्रेदं बोध्यम् ।
धर्मशास्त्रस्य कर्तारश्च मनुविष्णुयमदक्षाङ्गिरोत्रिबृहस्पत्युशनआपस्तम्ब
वसिष्ठकात्यायन पर।शरव्यासशङ्खलिखितसंवर्तगौतमशातात पहारीतयाज्ञव-
ल्क्यप्राचेतसादयः ( हेमाद्रिखण्डे ब्र० ) । आदिशब्देन च वृद्धदेवलसोम-
जमदग्निप्रजापतिविश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायन छागलेय-
जाबालिच्यवनमरीचिकश्यपा प्राह्याः । अत्राह यमः मनुर्यमो वसिष्ठो-
त्रिर्दक्षो विष्णुस्तथाङ्गिराः । उशना वाक्पतिव्र्व्यास आपस्तम्बोथ गौतमः ॥
कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः । संवर्तश्चैव शङ्खश्च हारीतो
लिखितस्तथा ॥ एतैर्यानि प्रणीतानि धर्मशास्त्राणि वै पुरा । तान्येवाति-
प्रमाणानि न हन्तव्यानि हेतुभिः ॥ इति ( वाच० ) ।
धर्माभासः - श्रुतिस्मृतिभ्यामुदितो यः स धर्मः प्रकीर्तितः । अन्यशास्त्रेषु
यः प्रोक्तो धर्माभासः स उच्यते ॥ ( देवीभाग० ) ।
 
-
 
-
 
धातुः - १ वातपित्तकफास्त्रयो धातवः इत्यायुर्वेदविदः । २ रेतः इत्यपीति
भिषजः । ३ रसासृांसमेदोस्थिमज्जाशुक्राणि सप्त धातवः त्वक्चर्मा-
दयोपि च इति शारीरकशास्त्रज्ञा आहुः । 8 हिरण्यं रजतं कांस्यं ताम्रं
सीसकमेष च । रङ्गमायसरैस्यं च धातवोष्टौ प्रकीर्तिताः ॥ इति वैद्य-