This page has not been fully proofread.

न्यायकोशः ।
 
जन्यद्रव्या वयवोतीन्द्रियं च इति न्यायसिद्धान्तः । महादेवमट्टस्तु गवा-
क्षरन्ध्रे दृश्यमानानामेव व्यणुकत्वमिति ऋणुकं नातीन्द्रियम् इत्याह
( दि० १ पृथिवी० पृ० ६९) । अत्रायं विशेषः । गवाक्षरन्ध्रे दृश्य-
मानस्यैव वणुकस्य त्रसरेणुः इत्यपि व्यवहारः । णुकार्ये त्रसरेणुः इति
पदं केवलरूढमेव ( राम० १ पृथि० पृ० ६९ ) । अतो न मनुस्मृतेः
( अ० ८ लो० १३२ ) विरोधः इति ।
 
घ.
 
धमनी – स्थूलतरनाडी ( संगीतरत्नाकरे पृ० १९ ) ।
 
-
 
धर्मः – १ आधेयः पदार्थः । यथा द्रव्यं गुणवदित्यादौ गुणो धर्मः ।
यथा संदिग्धसाध्यधर्मत्वं पक्षत्वम् ( चि० २ पृ० ३३ ) इति पक्षलक्षणे
पर्वतपक्षकवहिसाध्यकस्थले वह्वयादिर्धर्मः । अत्र वृत्तिमत्त्वं धर्मस्य
लक्षणम् । यत्र कुत्रचिद्वर्तते यत् तत्त्वम् इत्यर्थः । तेन घटत्वाकाशत्वा-
दिषु वृत्तिमत्पदार्थेषु लक्षणसमन्वयः । २ (गुणः ) [क] यतोभ्युदयनि:-
श्रेयससिद्धिः स धर्मः ( वै० १ । १ । २ ) । स धर्मः निवृत्तिलक्षणः विधिरूपो
वा (बै० उ० ११ १/२) । [ख] सुखासाधारणकारणम् ( प्र० प्र० )
( त० भा० गु० पृ० ३७ ) । स च विहितकर्मजन्यः अदृष्टविशेषः
( त० सं० ) । यथा धर्माधर्माश्रयोध्यक्षः ( मा०प० श्लो० ५० )
इत्यादौ पुण्यात्मको धर्मः । [ग] शरीरेण प्रशस्तानि दानपरपरित्रा-
●णादीनि कर्माण्याचरति । वाचा हितसत्यादीनि । मनसा अजिघांसादीनि ।
सेयं पुण्यरूपा प्रवृत्तिर्धर्म: ( सर्व० सं० पृ० २४६ अक्ष० ) । स च
जीवमात्रसमवेतः वासनया जन्यते भोगतत्त्वज्ञानादिना नश्यतीति ज्ञेयम्
( सि० च० ) । धर्मस्तु न प्रत्यक्षः । किं त्वनुमानगम्यः । तच्चानुमानम्
देवदत्तस्य शरीरादिकं देवदत्तस्य विशेषगुणजन्यम् कार्यत्वे सति देवदत्तस्य
भोगहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुबत् इति । यस्तु शरीरादिजनक
आत्मविशेषगुणः स एव धर्मः । प्रयत्नादीनां शरीराधजनकत्वात्
इति ज्ञेयम् ( त० भा० गु० पृ० ३७)। ३ वेदप्रतिपाद्यः
प्रयोजनवदर्थो धर्मः इति मीमांसकाः (लौ० भा० पृ० ३)। वेदेन