2023-02-20 00:55:21 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
३८५
द्वैतवाद: – जीवेश्वरादिमेदनिर्णायकः कथाविशेषः । यथा गौतमादिप्रणीतः
कथारूपप्रन्थविशेषः । अत्र व्युत्पत्तिः । द्विधा इतं द्वीतम् । तस्य भावः
द्वैतम् । स्वार्थे वा अण् । द्वैतमधिकृत्य वादो द्वैतवादः इति ( बाच० ) ।
द्वैतवादे प्रमाणानि ॐ मेदव्यपदेशात् ॐ ॐ प्रकरणात् ॐ ॐॐ
स्थित्यदनाभ्यां च ॐ ( ब्रह्मसूत्र० १।३।५ – ७ ) । जुष्टं यदा पश्यत्य-
न्यमीशमस्य महिमानम् । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं
परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वयनश्नन्नन्यो अभिचाकशीति
(मु० ३।१।१ ) ( तत्त्वप्रका० १/३/५ - ७) । जन्मादिव्यवस्थातः पुरुष.
बहुत्वम् (सां० सू० अ० १ सू० १४९ ) नाद्वैतश्रुतिविरोधो जाति-
परत्वात् ( सां० सू० अ० १ सू० १५४ ) इत्यादीनि ज्ञेयानि । सांख्य-
कारिकायामप्युक्तम् । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्य विपर्ययाञ्चैव ॥ ( सांख्यका० श्लो० १८) इति ।
अत्र द्वैतमतानि च सांख्ययोगन्यायतर्कपूर्वमीमांसोत्तरमीमांसादर्शनानि
ज्ञेयानि । अत्रोत्तरमीमांसाशब्देन मध्वापरनामश्री पूर्णप्रज्ञाचार्यप्रणीतं वेदा -
न्तशास्त्रं प्रायम् । शांकरमतमद्वैतम् रामानुजमतं विशिष्ठाद्वैतम् वल्लभमतं
तु शुद्धाद्वैतम् इति च ज्ञेयम् । द्वैतमतेषु जगतः सत्यत्वम् जीवेश्वरादि-
भेदपञ्चकम् परमात्मनः सर्वोत्तमत्वं स्वातत्र्यं च जीवानां तु बहुविधत्वं
सायुज्यादिमोक्षश्च प्रतिपाद्यते इति विज्ञेयम् । षड्दर्शनकर्तारच सांख्य
शास्त्रप्रणेता कपिल: योगशास्त्रप्रणेता पतञ्जलि: न्यायशास्त्रप्रणेता
गौतमः तर्कशास्त्र प्रणेता कणादः पूर्वमीमांसाशास्त्र प्रणेता जैमिनि: उत्तर-
मीमांसाशास्त्र प्रणेता श्रीसत्यवतीसुतो व्यास श्वेत्येते ज्ञेयाः ।
•
व्यणुकम् – [क] परमाणुद्वयसंयोगेन यदुत्पद्यते तत् ( त० दी० १
पृ० ९ ) ( त० कौ० १ पृ० ३) । यथा विषयो द्व्यणुकादिस्तु
ब्रह्माण्डान्त उदाहृतः ( भा० प० श्लो० ३९ ) इलादौ छ्यणुकम् ।
[ख] अणु परमाणू स्यात् इति बादरायणाचार्या आहुः (भाग० ) ।
[ग] नव्या नास्तिकास्तु संयुक्ताणुद्वयं द्व्यणुकम् इत्यादुः (प० मा० ) ।
अत्र व्युत्पत्तिः द्वौ अणू कारणे यस्य तत् इति द्रष्टव्या । व्यणुकं तु
४९ न्या० को०