This page has not been fully proofread.

न्यायकोशः ।
 
एकस्यानेकार्थदर्शिनो दर्शनप्रतिसंधानादुःखहेतौ द्वेषः इति भाष्य-
संमतोर्थ: ( वात्स्या० १११।१० ) । द्वेषश्च मनोप्रायः ( भा० ५०
श्लो० ५८) जीवात्ममात्रवृत्तिश्च ( वात्स्या० ४ । १ । २ ) । द्वेषलक्षणं
च निवृत्तेः साक्षादनुकूलत्वम् । अत्र ज्ञानवारणाय साक्षात् इति पदम्
( वाक्य० गु० पृ० २१ ) । अथवा विघ्नोत्पादकज्ञानजन्यगुणत्वम्
इति ( ल० व० गु० पृ० ३५ ) । [ ख ] निवृत्तिलिङ्गः (वात्स्या
३।२।३७ ) । स च प्रज्वलनात्मकः ( प्रशस्त० पृ० ३३ ) । यथा
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ( गीता० ३।३४ ) इत्यादौ
द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चात्म-
मनसोः संयोगाद्दुःखापेक्षात् स्मृत्यपेक्षाद्वा उत्पद्यते । प्रयत्नस्मृतिधर्मा-
धर्महेतुः । दोहः क्रोधः मन्युः अक्षमा अमर्षः इति द्वेषभेदाः ( प्रशस्त •
पृ० ३३ ) । [ग] ] द्वेष्टि इत्यनुभवसिद्धद्वेषत्वसामान्यवान् प्रज्वलना-
त्मकः ( प्र० प्र० ) ( त० कौ० पृ० ८) (सि० च० गु०
पृ० ३५ ) । [घ ] द्विष्टसाधनताज्ञानजन्यो गुणविशेष: ( सि० च०
गु० पृ० ३५ ) ( भा० प० गु० को० १४९ ) । अत्रेदं ज्ञेयम् ।
दुःखोपायविषयकं द्वेषं प्रति बलवद्विष्टसाधनताज्ञानं कारणम् । बलवदिष्ट-
साधनताज्ञानं च प्रतिबन्धकम् । तेन नान्तरीयकदुःखजनके पाकादौ
न द्वेषः इति ( मु० गु० पृ० २२२ ) । [ङ ] बलवहु:खसाधनता-
ज्ञानजन्यः अप्रीतिजनकश्चित्तवृत्तिविशेषः । यथा औषधं द्वेष्टि इत्यादी इति
शाब्दिका आहुः ( ल० म० ) । [च ] दुःखानुशयो केशविशेषः द्वेषः
इति पातञ्जला आहुः । [ छ ] दुःखज्ञस्य तदनुस्मृतिपुरःसरं तत्सा-
धने निन्दा द्वेषः ( सर्व० सं० पृ० ३६३ पात० ) । स च द्वेषः
बुद्धिधर्म एव नात्मधर्म इति सांख्या आहुः । न्यायनये द्वेषो द्विविधः ।
दुःखविषयः तत्साधनविषयश्च । अत्र कार्यकारणभावो ज्ञेयः । दुःखद्वेषं प्रति
दुःखज्ञानमात्रं कारणम् । तथा दुःखसाधनद्वेषं प्रति दुःखसाधनताज्ञानं
इदं दुःखसाधनम् इत्याकारकम् कारणम् इति ( त० कौ० पृ० १८) ।
सांख्यादिमते च द्वेषोष्टादशविधः ( वाच० ) ।
 
.
 
३८४