2023-02-20 00:55:21 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
द्रष्यज्ञानम् । ततः संस्कारः । इतीन्द्रियसैनिकर्षमारभ्य संस्कारपर्यन्तमष्टौ
क्षणाः (बै० उ० ७।२।८) । अत्र मुक्तावली। प्रथममपेक्षाबुद्धिः । ततो
द्वित्वोत्पत्तिः । ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पकात्मकम् । ततो द्वि-
त्वत्वविशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च । ततो द्वित्वनाश: इति (मु०गु०) ।
द्वित्वादेरपेक्षाबुद्धिनाशनाश्यत्वे प्रमाणमनुमानम् । तञ्च द्वित्वमपेक्षाबुद्धिना-
शनाश्यम् आश्रयनाशविरोधिगुणान्तराभावे गुणस्य स्वतः अविनाशित्वात्
चरमज्ञानवत् । चरमज्ञानस्यादृष्टनाशनाश्यत्वात् इति (वै० उ० ७ १२१८) ।
इदानीं द्वित्वविनाशप्रकाराः प्रदर्श्यन्ते । ( १ ) एकत्वत्वसामान्यज्ञानस्या-
पेक्षाबुद्धितो विनाशः । द्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः । द्वित्वत्व-
सामान्यज्ञानस्य च द्वित्वगुणबुद्धितो विनाशः । द्वित्वगुणबुद्धेश्च द्वित्व-
विशिष्टद्रव्यज्ञानात् । तस्य च संस्कारात् विषयान्तरज्ञानाद्वा विनाशः
इति । एवम् द्वित्वोत्पत्तिविनाशवत् त्रित्वोत्पत्तिविनाशावप्यूहनीयौ (वै०
उ० ७१२१८) । (२) अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वो-
त्पत्तिसमकालं निवृत्तिः । अपेक्षाबुद्धेर्द्वित्वसामान्यज्ञानावित्वगुणबुद्धिसम-
समयं निवृत्तिः । द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्वब्यबुद्धिसमकालं निवृत्तिः ।
गुणबुद्धेर्द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालं निवृत्तिः । द्रष्यबुद्धेस्तदनन्तरं
संस्कारात् इति ( प्रशस्त० पृ० १३) । आश्रयनाशात्तन्नाशो यथा ।
( ३ ) यत्र द्वित्वाधारावयवकर्मसमकालमेकत्वसामान्यज्ञानम् । तद्यथा
अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्य-
नाशद्वित्वसामान्यज्ञाने तत्र द्रव्यनाशाद्वित्वनाशः सामान्यज्ञानादपेक्षाबुद्धि-
नाशः अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्यकारणसमान-
भावाभावात् ( बै० उ० ७७२१८) । ( ४ ) यदैकत्वाधारावयवैः
कर्मोत्पद्यते तदैकत्वसामान्ये ज्ञानमुत्पद्यते । कर्मणा चावयवान्तराद्विभागः
क्रियते । अपेक्षाबुद्धेश्वोत्पत्तिः । ततो यस्मिन्नेष काले विभागात् संयोग-
विनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते । संयोगविनाशाद्रव्यविनाशः
सामान्य बुद्धेश्वोत्पत्तिः । ततस्तस्मिन्नेव काल आश्रयविनाशाद्वित्वविनाशः
इति शोभनमेतद्विधानम् ( प्रशस्त० पृ० १४ ) । अपेक्षाबुद्धि-
३८२