This page has not been fully proofread.

न्यायकोशः ।
 
-
 
द्वित्वम् -[क] संख्याविशेषः । इदं द्वित्वं च समवायेन द्रव्यद्वये
प्रत्येकं तिष्ठति इति ज्ञेयम् । यथा द्वौ घटावानयेत्यादौ द्वित्वम् ।
[ख] अपेक्षाबुद्धिजन्यो गुणविशेषः । यथा अयमेकः अयमेकः इति
बुद्धखनन्तरम् इमौ इति व्यवहारविषयो द्वित्वम् । इदं द्वित्वं तु व्यासज्य-
वृत्ति पर्याप्तिसंबन्धेन द्वयोरेव द्रव्ययोस्तिष्ठति न प्रत्येकम् । इदमेव द्वित्वम्
इमौ द्वौ इति व्यवहारविषयः इति च विज्ञेयम् ( सर्व० सं० पृ० २२१
औलू ० ) । एवम् त्रित्वचतुष्वायारम्य परार्धत्वपर्यन्तं ज्ञेयम् । मीमांस-
कास्तु द्वित्वादी नामपेक्षाबुद्धिजन्यत्वं न स्वीकुर्वन्ति इत्यन्यत् । वस्तुतस्तु
द्वित्वमपेक्षाबुद्ध्या जन्यते तन्नाशेन च नश्यति । कचिदाश्रयनाशादपि
नश्यति ( प्रशस्त० पृ० १३ ) (मु० गु० ) । द्वित्वादेरपेक्षाबुद्धि-
जन्यत्वे प्रमाणमाडुराचार्या अपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति
व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात् शब्दं प्रति संयोगवत् इति ।
द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यमयं न भवति अनेकाश्रितगुणत्वात्
पृथक्त्वादिवत् इति सायणाचार्या : (सर्व० सं० पृ० २२२ औलू० )।
इदानीं द्वित्वोत्पत्तिप्रकाराः प्रदर्श्यन्ते । ( १ ) यदा बोद्धुचक्षुषा समाना-
समानजातीययोर्द्रव्ययोः संनिकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्व-
सामान्यज्ञानोत्पत्तावेकत्वसामान्यतत्संबन्धज्ञानेभ्य एकगुणयोरनेकविषयि-
ण्येकबुद्धिरुत्पद्यते तदा तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोर्द्वत्वमारभ्यते । ततः
पुनस्तस्मिन् द्वित्वसामान्ये ज्ञानमुत्पद्यते । तस्माद्वित्वसामान्यज्ञानादपेक्षा-
बुद्धिर्षिनश्यति । द्वित्वसामान्यतत्संबन्धज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानता
इत्येकः कालः ( प्रशस्त० पृ० १३ ) । ( २ ) प्रथममिन्द्रियार्थसंनिकर्षः ।
तस्मादेकत्वसामान्यज्ञानम् । ततोपेक्षाबुद्धिः । ततो द्वित्वोत्पत्तिः । ततो
द्वित्वसामान्यज्ञानम् । तस्माद्वित्वगुणज्ञानम् । ततः संस्कारः ( सर्व० सं०
पृ० २२१ औलू० ) । ( ३ ) उत्पत्स्यमानद्वित्वाधारेणेन्द्रियसंनिकर्षः ।
तत एकत्वगुणगतसामान्यज्ञानम् । तत एकत्व सामान्य विशिष्टैकत्वगुणस-
मूहालम्बनरूपापेक्षाबुद्धिः । ततो द्वित्वगुणोत्पत्तिः । ततस्तद्गतसामान्यस्य
ज्ञानम् । ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानम् । ततो द्वित्वगुणविशिष्ट-