2023-02-20 00:55:20 by ambuda-bot
This page has not been fully proofread.
३८०
न्यायकोशः ।
द्वितीयया बोध्यते । तत्स्वीकारे तु क्रियाविशेषणपदोत्तरद्वितीया विशेष-
विभक्तिबत्प्रयोगसाधुत्वायैवेति ज्ञेयम् ( का० व्या० पृ० ७) ।
५ अधिकरणत्वम् । यथा मासमधीते चैत्र इत्यादौ द्वितीयार्थः । अत्र
कालाध्वनोरत्यन्तसंयोगे (पा० सू० २/१२/५ ) इत्यनेन द्वितीया ज्ञेया ।
६ अन्ये तु व्यापकत्वम् । यथा मासं रमणीया क्रोशं कुटिला नदीत्यादौ
द्वितीयार्थः इत्याहुः । अत्र अत्यन्तसंयोगोभिव्याप्तिः । अभिव्यास्यन्त-
र्भावेन मासस्य कर्मत्वम् । द्वितीयायाः साधुत्व निर्वाहकत्वमेवेति । अत्रो-
क्तम् कालभाषाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मस्व-
मुपजायते ॥ इति ( ग० व्यु० का० २ ख० २ पृ० ६८) ।
७ केचित्तु अभिव्याप्तिः । यथा मासं सुप्यते क्रोशं गम्यते इत्यादौ
द्वितीयार्थ इत्याहुः । ८ प्रतियोगित्वम् अनुयोगित्वं वा । यथा दण्डं
विना न घट उत्पद्यते रासभं विनापि घट उत्पद्यते इत्यादौ द्वितीयार्थः ।
यथा वा आरम्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् इत्यादौ
प्रतियोगित्वम् अनुयोगित्वं वा द्वितीयार्थः । ९ अवधित्वम् अवधिमत्वं
वा । यथा काशीतः कौशिकीं यावद्यातीत्यादौ द्वितीयार्थः । १० आघे-
यत्वम् । यथा यज्ञमनु प्रावर्षदित्यादौ द्वितीयार्थः । अत्रार्थे कारकत्वरूपं
हेतुत्वम् अनुशब्दार्थः । अनुलक्षणे ( पा० सू० १९४८४ ) इत्यत्र
कर्मप्रवचनीय संज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च
यज्ञान्वितस्याघेयत्वरूपद्वितीयार्थस्यान्वयः । हेतुतायाश्च निरूपकत्वसंबन्धेन
वृष्टावन्वयः ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । ११ निरूपि
तत्वम् । यथा उक्तोदाहरणे एव यज्ञमनुप्रावर्षदित्यत्र । अत्रार्थे जन्यत्वमनु-
शब्दार्थः । तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञाद्यन्वितस्यान्वयः । जन्य-
तायाश्चाश्रयत्वसंबन्धेन वृष्टावन्वयः । यथा वा त्वां च मां चान्तरेणेत्यादौ
द्वितीयार्थो निरूपितत्वम् । अत्र अन्तरान्तरेण युक्ते (पा० सू० २।३।४ )
इत्यनेन द्वितीया । तथा च द्वितीयार्थनिरूपितत्वस्यान्तरापदार्थतावच्छेदक-
मध्यत्वेन्वयः ( ग० व्यु० का० २ ख० २ पृ० ७७ ) । एवमन्यत्रापि
द्वितीयार्थ उक्तदिशा स्वयं परिच्छेद्यः (ग० व्यु० कारक० २ खण्ड ०
१-२ पृ० ३६-७७)।