2023-02-20 00:55:20 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
साध्यताख्य विषयताविशेषः । यथा घटं करोतीत्यादौ द्वितीयार्थः ।
अत्रायं विशेषो ज्ञेयः । काशान् कटं करोति काष्ठं भस्म करोतीत्यादौ
काशकाष्ठपदोत्तर द्वितीययोरुपादानीयविलक्षण विषयतैवार्थः इति ( ग०
व्यु० का० २ ख० २ पृ० ६५ ) । २ कर्तृत्वम् । यथा अजां ग्रामं
प्रापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमनं भोजयति यजमानं म
पाठयति घटं जनयति घटं नाशयति चैत्रः इत्यादौ अजादिपदोत्तर-
द्वितीयार्थः कर्तृत्वम् । अजां ग्रामं प्रापयति इत्यादौ गतिनिरूपितमजानिष्ठं
कर्तृत्वम् आश्रयत्वमेव द्वितीयार्थः । अत्र गतिबुद्धिप्रत्यवसानार्थशब्द-
कर्माकर्मकाणामणि कर्ता स णौ (पा० सू० १।४।५२ ) इत्यनेन कर्तुः
कर्मसंज्ञा विधीयते इति बोध्यम् । तथा च अजां ग्रामं प्रापयति इत्यस्य
अजा ग्रामं गच्छति चैत्रोजां ग्रामं गमयति इत्यर्थः । एवमुत्तरत्राप्यर्थ
ऊह्यः । शिष्यं शास्त्रं ज्ञापयतीत्यादौ ज्ञाननिरूपितं शिष्यनिष्ठं कर्तत्वं
चाश्रयत्वमेव द्वितीयार्थः । घटं जनयतीत्यादावुत्पत्तिनिरूपितं घटनिष्ठं
कर्तृत्वं चाश्रयत्वमेव द्वितीयार्थः । ब्राह्मणमनं भोजयतीत्यादौ भोजन-
निरूपितं ब्राह्मणनिष्ठं कर्तृत्वं च भोजनानुकूलकृतिमत्त्वमेव द्वितीयार्थः ।
यजमानं मन्त्रं पाठयतीत्यादौ पाठनिरूपितं यजमाननिष्ठं कर्तृत्वं च
पाठानुकूलकृतिमत्त्वमेव द्वितीयार्थः । घटं नाशयतीत्यादौ नाशनिरूपितं
घटनिष्ठं कर्तृत्वं च प्रतियोगित्वमेव द्वितीयार्थः । तस्य च कर्तृत्वस्य
पूर्वोक्ताश्रयत्वकृतिमत्त्वप्रतियोगित्वात्मकस्य निरूपकतासंबन्धेन धात्वर्थेन्वयः
इति प्राचीना आहुः । नव्यास्तु यत्राश्रयत्वं कर्तृत्वम् तत्राधेयत्वं द्विती-
यार्थः । यत्रानुकूलकृतिमत्त्वं कर्तृत्वं तत्र कृतिजन्यत्वं द्वितीयार्थः । यत्र
प्रतियोगित्वं कर्तृत्वं तत्रानुयोगित्वं द्वितीयार्थः । तेषां च पूर्वोक्तकर्तृत्वा
नाम् आश्रयतासंबन्धेनैव तत्तद्धात्वर्थेष्वन्वयः इति प्राहुः । ३ विभागः ।
यथा मां पयो दोग्धि मैत्र इत्यादौ गोपदोत्तरद्वितीयाया अर्थः । अत्रत्यो
विषयस्तु दोहनशब्दव्याख्यानावसरे संपादितः । तत्रावलोकनीयः । ४
अमेदः । यथा स्तोकं पचतीत्यादौ द्वितीयार्थः । अत्र नामार्थधात्वर्थयोर-
भेदात्मकसंबन्धेन पदादनुपस्थितेनाप्यन्वयो भवतीत्यस्यास्वीकार एवाभेदो