This page has not been fully proofread.

३७८
 
न्यायकोशः ।
 
उद्देश्यत्वम् उद्देश्यित्वं वा । यथा वह्निमवेन पर्वतमनुमिनोमीत्यादौ
द्वितीयार्थः । अयं द्वितीयार्थस्तु ( उद्देश्यत्वम् उद्देश्यित्वं वा) यदि वह्नि-
साध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्त्वेन पर्वतमनुमिनोमि इत्यादि-
वाक्यस्यापि प्रामाण्यं मन्यते तदाङ्गीकर्तव्यः । तथा च तादृशद्वितीयार्थो
द्देश्यत्वादेव तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेन्वयः कर्तव्यः ।
वह्निमत्त्वेनेत्यत्र तृतीयार्थो वैशिष्ट्यम् । तचात्र विधेयत्वमेवेति न तृतीया-
र्थानुपपत्तिः ( ग० व्यु० का० २ ख० २ पृ० ५५-५६ ) । यथा
वा विष्णुं यजते इत्यादौ द्वितीयार्थः । कचिञ्च समवायसंबन्धावच्छिन्ना-
धेयत्वसंसर्गावच्छिन्न विषयतानिरूपितप्रकारिता । यथा पुष्पं जिघ्रतीत्यादौ
द्वितीयार्थः । अत्र तादृशप्रकारितायाश्च गन्धनिरूपितलौकिकविषयिता-
शालिप्रत्यक्षात्मक धात्वर्यैकदेशे विषयितायां निरूपितत्व संबन्धेनान्वयः ।
तेन इदानींतनपुष्पे गन्धः इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकार-
कत्वेपि तादृश प्रत्यक्षदशायां न कालं जिघ्रति इत्यादिप्रयोगः ( ग० व्यु०
का० २ ख० १ पृ० ५२ ) । कचिच लौकिकविषयित्वम् । यथा घटं
पश्यतीत्यादौ द्वितीयार्थः । कचित् तादात्म्यसंबन्धावच्छिन्न प्रकारता ।
यथा रङ्गे अमेदेन रजतारोपस्थले रङ्गं रजतं जानाति इत्यादौ द्वितीयार्थः ।
कचित् विशेष्यता । यथा पाकं चिकीर्षतीत्यादौ द्वितीयार्थः । अत्र
पाकादेव कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते । न त्विच्छाया विषयत्व-
रूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासति इत्यादिप्रयोगा।पत्तेः
(ग० व्यु० का० २ ख० २ पृ० ५९ ) । अत्रेदं ज्ञेयम् । क्यजाद्य-
न्तादेरकर्मकस्य सन्नन्तसमानार्थकत्वेपि पुत्रीयति पुत्रकाम्यतीत्या दौ
साकाङ्क्षत्वानुपगमेन न द्वितीया । भृत्यं पुत्रीयतीत्यादौ तु आचारार्थ-
विहितक्यजन्तस्य सकर्मकत्वं युज्यत एवेति तत्र द्वितीया ( ग० व्यु०
का० २ ख० २ १० ६३ ) । कचित् मुख्यविशेष्यत्वम् । यथा
दृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैव न तु दृष्टेः कर्मस्वं द्वितीयार्थः ।
अतस्तत्र तादृश विवक्षायां सुखमिच्छति इत्यादिवत् दृष्टिमिच्छति इत्यादयो
न प्रयोगा: ( ग० व्यु० का० २ ख० २ १० ५९ ) । कचित्