This page has not been fully proofread.

न्यायकोशः ।
 
३७७
 
इति प्राहुः । अत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुहेरर्थः । तत्र
विभागे गोपदोत्तरद्वितीयार्थवृत्तित्वस्य क्षरणे च पयःपदोचरद्वितीयार्थ-
वृत्तित्वस्यान्वयो बोध्यः ( ग० व्यु० का० २ पृ० ४४ ) । अत्रेदं
बोध्यम् । गामित्यत्र अकथितं च ( पा० सू० ११४५१) इत्यनेन
कर्मसंज्ञा । पय इत्यत्र तु कर्तुरीप्सिततमं कर्म (पा० सू० ११४।४९ )
इत्यनेन कर्मसंज्ञा । तथा च कर्मणि द्वितीया ( २ । ३ । २ ) इत्यनेनो-
भयत्र द्वितीया इति । अधिकं तु दोहनशम्दव्याख्यानावसरे संपादितम्
इति तत्र द्रष्टव्यम् । अत्र आश्रयो द्वितीयार्थः इति शाब्दिका आहुः
( बै० सा ) । कचित्कर्मत्वं विषयरूपत्वम् । यथा भाविनं घटं जानाति
( न्या० म० ४ पृ० ६) पौरवं गां याचते इत्यादौ द्वितीयार्थः ।
अत्र विद्यमानघटस्थले ज्ञानेन ज्ञाततोत्पादनमङ्गीकृत्य क्रियाजन्यफल-
शालित्वरूपकर्मत्वमपि कदाचित्संभवति इत्यतः भाविनम् इत्युक्तम् । तत्र
पूर्व घटस्याभावेन ज्ञातताया जननासंभवात् इति भावः । एवं च
कर्तुरीप्सिततमं कर्म इत्यनेन सूत्रेण लक्षणया विषयत्वात्मकं गौणमेव
कर्मत्वं बोयते इति ( त० प्र० ख० ४ पृ० ७६ ) । पौरवमित्यत्रापि
पूर्वोक्तमेव गौणं कर्मत्वम् । पौरवस्य गां दोग्धि इत्यत्रेव कर्मत्वं बोध्यम् ।
तच्च विषयत्वरूपं कर्मत्वं कचिद्विधेयत्वम् विधेयित्वं वा । यथा पर्वते
वह्निमनुमिनोमीत्यादौ द्वितीयार्थः । अत्रेदं बोध्यम् । ज्ञानादिरूपसविषयक -
वस्त्वमिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते विषयत्वमर्थः ।
तस्य च निरूपकतासंबन्धेन धात्वर्थेन्वयः । विषयत्वे प्रकृत्यर्थस्याधेयता-
संबन्धेनान्वयः इति । नव्यास्तु वृत्यनियामकसंबन्धस्या भावप्रतियोगि
तानवच्छेदकतया घटं जानाति पटं न इत्यादौ प्राचीन मते शाब्दबोधस्य
अनुपपत्तेस्तत्र द्वितीयाया विषयित्वमेव शक्यार्थमुपवर्णयन्ति । तन्मते तत्र
विषयित्वे प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन विषयित्वस्य च धात्वर्थ आश्रय-
सासंबन्धेनान्वयः इति । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्व-
मेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदा-
यिका आड्डः ( ग० व्यु० का० २ ख० २ १० ५१ ) । कचित्तु
 
४८ न्या० को●