This page has not been fully proofread.

न्यायकोशः ।
 
३७३
 
इत्याहुः (ल० म० वृत्तिवि० पृ० ३० ) । अत्रायं विशेषः । समु-
चयान्बाचययोः सामर्थ्याभाषान्न तत्र द्वन्द्वसमासः । यत्र युगपक्रियान्वय
तात्पर्यम् तत्र समासः । समुच्चये च क्रमेण क्रियान्वयः न तु युगपत्
इति ( त० प्र० ख० ४ १० ५२ ) । [ ख ] परस्परानन्वितसमस्य-
माननिखिलपदार्थबोधकसमासः । यथा धवखदिरावित्यादौ । अव्ययी-
भावादावतिष्याप्तिवारणाय परस्परानन्वितेति पदार्थविशेषणम् । अव्ययी
भावादी यथायथं मेदेनामेदेन वा परस्परान्वितपदार्थबोधकत्व सत्त्वान्नाति-
व्याप्तिः । पाणिपादमित्यादिसमाहारद्वन्द्वे तु पाणिपादमात्रं प्रतीयते
साहित्यमपि ( समाहारः ) न प्रतीयते इति तत्र नाव्याप्तिः । एकवचनं
तु द्वन्दूश्च प्राणितूर्यसेनाङ्गानाम् ( पा० सू० २।४।२) इति सूत्रेण
विहितं न विरुद्धम् । धवखदिरावित्यत्र च परस्परानन्वितसमस्यमान-
पदार्थधवखदिरादिबोधकत्व सत्त्वात्समन्वयः ( म० प्र० ४ पृ० ४४ )।
[ग ] सर्वपदार्थप्रधानः समासः ( न्या० वा० १ पृ० ११ ) ।
द्वन्द्वम् – रहस्यादयः पञ्च द्वन्द्वशब्दार्थाः पाणिनिनोक्ताः । तथाच सूत्रम् द्वन्द्वं
रहस्यमर्यादा वचनव्युत्क्रमणयज्ञपात्र प्रयोगाभिव्यक्तिषु (पा० सू० ८।१।१५)
इति । तत्र रहस्यं द्वन्द्वशब्दवाच्यम् । इतरे प्रयोगोपाधयः । तथाहि १
रहस्यम् । यथा द्वन्द्वं मन्यते इत्यादौ । २ मर्यादा स्थित्यनतिक्रमः ।
यथा आचतुरं हीमे पशवो द्वन्द्व मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति
पौत्रेण प्रपौत्रेणापि इति मर्यादार्थः । ३ व्युत्क्रमणम् पृथगवस्थानम् । यथा
द्वन्द्रं व्युत्क्रान्ताः इति । द्विवर्गसंबन्धेन पृथगवस्थिता इत्यर्थः (वाच० ) ।
४ यज्ञपात्रप्रयोगः । यथा द्वन्द्वं न्यश्चि यज्ञपात्राणि प्रयुनक्ति इति ।
५ अभिव्यक्तिः । यथा द्वन्द्वं संकर्षणवासुदेवौ इति ( शब्देन्दुशे० ) ।
अभिव्यक्तौ साहचर्येणेत्यर्थः ( वाच० ) । ६ काव्यज्ञाश्च युगलम् । यथा
द्वन्द्वान भावं क्रियया विवः ( कुमार० ३।३५) इत्यादी इत्याहुः ।
७ परस्परविरुद्धस्वभावः शीतोष्णादिः । यथा द्वन्द्वातीतो विमत्सरः
( गीता० ४ । २२) निर्द्वन्द्वो हि महाबाहो (गीता० ४ । ३ ) न द्वन्दू-
दुःखमिह किंचिदकिंचनोपि ( माघः ) इत्यादौ इति योगिनो वेदान्तिन