This page has not been fully proofread.

न्यायकोशः ।
 
१०३ ) ।
 
हरिसंप्रदानको द्रोहः इति बोध: ( ल० म० सुबर्थ० १०
अत्रायं विवेकः । कोपपूर्वकस्य द्रोहादेर्दुहधातुवाच्यत्वे तत्कर्मणः
संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेव इति पुनः कौमाराः ।
सोपसर्गयोस्तु क्रुधद्रुहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव
शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि षष्ठ्येष
प्रमाणम् ( श० प्र० श्लो० ६९ पृ० ८७) । अत्रेदमवधेयम् । मित्रं
दुह्यति शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि प्रयोगात् दुहादिकर्मणः
संप्रदानत्वं वैकल्पिकम् इत्युन्नीयते । [ ङ ] हिंसा इति परे मन्यन्ते
( गौ० वृ० ४ । १ । ३ ) ।
 
३७२
 
द्वन्द्वः – ( समासः ) [ क ] यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य
निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थः तादृशनामनिवह एव
तावदर्थको द्वन्द्वसमासः । घटघटेत्यादिकस्य घटकलशेत्यादिकस्य घटतद्वटे-
त्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्यहेतुत्वम् ।
अतो न तादृड्रामनिवहो घटाद्यर्थे द्वन्द्वः । अत एव समस्यमानपदार्थयोः
तत्त्यावच्छेदकयोर्वा यत्र मिथो भेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय चार्थे
द्वन्द्व (पा० सू० २।३।२९ ) इति पाणिनिराह । अत एव भेदगर्भस-
मुच्चयार्थकं चशब्द मन्तर्भाव्य धवश्च खदिरश्च इत्यादिकं विग्रहमस्य प्रयु-
खते वृद्धाः ( श० प्र० श्लो० ४७ पृ० ६२ ) । पदजन्यप्रतीतिविषयभेद
एव द्वन्द्व : ( भवानन्दी ) । यथा पाणिपादं वादय धवखदिरौ छिन्धीत्यादौ
द्वन्द्वः । अत्र हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रति अमादि-
धर्मिकः करचरणायुपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितो-
त्तरत्वसंबन्धेन निश्चयः कारणम् । अतः पाणिपादादिसमुदायः कर-
चरणादितत्तदर्थे द्वन्द्वः ( श० प्र० श्लो० ४७ पृ० ६१ ) । द्वन्द्वो
द्विविधः । समाहारः इतरेतरवेति ( श० प्र० श्लो० ४७-४८
पृ० ६० - ६१ ) । अत्र वैयाकरणानां विवेकः । संहतिप्राधान्ये समा-
हारद्वन्द्वः संहन्यमानप्राधान्य इतरेतरयोगः इति (वाच० ) । शाब्दिकास्तु
धवखदिरावित्या दावितरेतरयोगद्वन्द्वे उद्भूतावयवमेदसमूहः समासार्थ