2023-02-20 00:55:18 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
इति । तन्मते द्रव्यरसगुण वीर्यविपाकानां प्राधान्याप्राधान्यभेदेन द्वैविध्यम्
सुश्रुतप्रन्थे उक्तम् । तत्तु तस्मादेव विज्ञेयम् । प्रकारान्तरेण द्रव्यं पञ्च-
विधम् अत्यन्तकठिनकठिनाई कोल्बणद्रवद्रव्य मेदात् इत्याहुः ( वाच० ) ।
8 आर्हतास्तु गुणपर्यायवद्रव्यम् ( सर्व० सं० पृ० ७२ आई० )
इत्याहुः । ५ रामानुजीयास्तु इत्थं वदन्ति । तत्र द्रव्यं दशावत्प्रकृति-
रिह गुणैः सत्त्वपूर्वैरुपेता कालोब्दाद्याकृतिः स्यादणुरवगतिमाशीव ईशोन्य
आत्मा । संप्रोक्ता नित्यभूतित्रिगुणसमधिका सवयुक्ता तथैव ज्ञातुर्ज्ञेया-
बभासा मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ॥ ( सर्व० सं० पृ० ११२
रामानु० ) ।
द्रोणः - द्रोणत्वविशिष्टः परिमाणविशेषः । यथा द्विद्रोणेन धान्यं क्रीणाति
द्रोणो व्रीहिरित्यादौ । द्रोणत्वं चात्र इयत्ताविशेषावच्छिन्नपला दिपरि-
च्छिन्नधान्यादिपरिच्छेदकत्वसमानाधिकरणजातिविशेषः । एवम् प्रस्थत्वा-
दयो बोध्या: ( ल० म० ) । द्रोणो व्रीहिरित्यत्र द्रोणरूपं यत् परिमाणं
तत्परिच्छिन्नो नीहिः इति शाब्दबोध: ( सि० कौ० का० ) ।
द्रोहः– ( दोषः ) [ क ] अहितेच्छा । यथा शत्रवे दुह्यतीत्यादौ धात्वर्थः
( ग० व्यु० का० ४ १० ९६ ) । अत्र भाष्यम् प्रयत्नस्मृतिधर्माधर्म-
हेतुर्दोहः । स च द्वेषभेदः ( प्रशस्त० पृ० ३३ ) । अत्र अहित-
भागितयेच्छाविषयता । तन्निरूपकत्वं चतुर्थ्यर्थः । तादृशनिरूपकत्वस्य
धात्वर्थेच्छायामन्वयः । अथवा आघेयत्वं चतुर्थ्यर्थः । अतः कर्मणेत्या-
दिसूत्रस्य ( पा० सू० ११४/३२ ) न विषयः ( ग० न्यु० का० ४
पृ० ९६ ) । तस्य चाधेयत्वस्य धात्वर्धघटकाहिते अन्वयः । अत्र
क्रुषद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ( पा० सू० १ । ४ । ३७ ) इत्यनेन
कर्मणः संप्रदानसंज्ञा ( ग० व्यु० का० ४ १० ९६ ) । [ख]
नाशाय द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [ग] द्विष्टाचरणम् । यथा
मित्राय दुधतीत्यत्र । अत्र मित्रस्य द्विष्टमाचरतीत्यर्थः ( श० प्र० श्लो० ६९
पृ० ८७ ) । [ घ ] शाब्दिकास्तु दुःखजनकक्रियारूपापकारजनक-
श्चित्तवृत्तिविशेषः । यथा हरये दुह्यतीत्यादौ दुहेरर्थः इत्याहुः । अत्र