2023-02-20 00:55:17 by ambuda-bot
This page has not been fully proofread.
३७०
न्यायकोशः ।
दीनामपि जातित्वमूह्यम् । द्रव्यं नवविधम् पृथिवी आपः तेज: वायु:
आकाश: काल: दिक् आत्मा मनः इति द्रव्याणि (३० १।१२।५०)
( प्रशस्त० पृ० १ ) ( त० मा० अर्थ० पृ० २७ ) ( त० सं० )
( भा० प० श्लो० ३ ) । आकाशकालदिशा मे कैकत्वादपरजात्यभावे
पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालः दिक् इति ( प्रशस्त •
१० ७ ) । तत्र दिक्कालौ परमात्मनो नातिरिच्येते इति दीधितिकृद्वक्ति
( दि० १) (१० मा० ) । आकाश ईश्वरान्नातिरिष्यते इत्येकदेशिन
आहुः (१० मा० ) । अत्र भाष्यम् । आकाशं गुणवत्त्वात् अनाश्रितत्वाच्च
द्रव्यम् । शब्दो गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् । समाना-
समानजातीयकारणासंभवान्नित्यम् । सर्वप्राणिनां च शब्दोपलब्धिनिमित्तं
श्रोत्रभावेन ( प्रशस्त ० पृ० ७ ) । द्रव्यम् प्रकारान्तरेण द्विविधम्
बहिर्द्रव्यम् अन्तर्द्रव्यं च । बहिर्द्रव्याणि पृथिवी आपः तेजः वायुश्च ।
तदन्यान्यन्तर्द्रव्याणि इति । तत्रापि पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि
( न्या० वा० १२।१९।१३ १० ७६ ) । अत्रेदं बोध्यम् । वायोरनुमेयत्व-
वादिनां प्राचां मते बहिर्द्रव्यप्रत्यक्षं प्रति उद्भूतरूपवत्वे सति महत्त्वं
कारणम् । तेन प्रत्यक्षसामग्र्यभावान्न वायोस्त्वाचप्रत्यक्षम् । वायोः
प्रत्यक्षत्ववादिनां नव्यानां मते तु उद्भूतस्पर्शवत्वे सति महत्त्वमपि
कारणम् इति ( न्या० सि० दी० पृ० ३२ ) (मु० १ पृ० ) ।
तेन प्रत्यक्षसामग्रीसंपत्त्या वायोस्त्वाचप्रत्यक्षं भवति इति भावः । द्रव्यं
नित्यानित्यभेदेनापि द्विविधम् । तत्र नवसु द्रव्येषु मध्ये पृथिव्यादि-
चतुष्टयस्य परमाणवः आकाशम् काल: दिक् आत्मा ( जीव: परमात्मा
च ) मनश्च एतानि नित्यद्रव्याणि । पृथिव्यादिचतुष्टयस्य द्व्यणुकमारभ्य
महत्पर्यन्तं सर्वाण्यनित्यद्रव्याणि भवन्ति ( मु० १ ) । तत्र अनित्यद्रव्यं
कार्यरूपत्वा दवयवसमवेतम् । नित्यद्रव्यं त्वसमवेतमेव । २ शाब्दिकास्तु
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन
व्यवस्थितः ॥ ( भर्तृहरिः ) इति वदन्ति । ३ भिषजस्तु रसो गुणस्तथा
वीर्य विपाकः शक्तिरेव च । पञ्चानां यः समाहारस्तद्रष्यमिति कीर्त्यते ॥