This page has not been fully proofread.

न्यायकोशः ।
 
३६९
 
( मा० आ० ५४/७८) तं दुद्रावाद्रिणा कपिः ( भट्टि० ) इत्यादौ
इत्याहु: ( वाच० )।
 

 
द्रव्यत्वम् – १ (सामान्यम्) गगनारविन्दसमवेतत्वे सति नित्यत्वे सति
गन्धासमवेतत्वम् ( सर्व० पृ० २१५ औलू० ) । तच्च नित्यमनेकद्रव्यमात्र-
समवेतम् ( वै० उ० १ । २ । ११ ) । यथा क्षित्यादीनां नवानां तु द्रव्यत्वम्
( भा० प० श्लो० २४ ) । अत्र द्रव्यत्वत्वं तु द्रव्येतरासमवेतत्वे सति
सकलद्रव्यसमवेतत्वम् । एवम् पृथिवीत्वत्वघटत्वत्वादिकमपि निर्वाच्यम् ।
२ लिङ्गसंख्यान्वयित्वं द्रव्यत्वम् इति शाब्दिका वदन्ति । लिङ्गसंख्या-
कारकत्वशून्यत्वं सत्त्वत्वम् । तदेव द्रव्यत्वम् इति भावः ( वाच० ) ।
द्रव्यम् – ( पदार्थः ) १ [ क ] गुणाश्रयः ( त० दी० पृ० ४ )।
अत्रायं नियमः । प्रथमं द्रव्यं निर्गुणं निष्क्रियं चैवोत्पद्यते पश्चात्तत्समवेता
गुणकिया उत्पद्यन्ते इति । गुणाश्रयत्वं चात्र गुणयोग्यत्वम् । तञ्च
गुणात्यन्ताभावानधिकरणत्वम् ( त० भा० ) । इदं द्रव्यलक्षणम्
द्रव्यत्वजातिमत्त्वं वा द्रव्यलक्षणम् इति बोध्यम् ( त० दी० १ ४ )
( त० कौ० ) । इत्थं च तत्र सूत्रम् क्रियागुणवत् समवायिकारण-
मिति द्रव्यलक्षणम् (वै० १ । १ । १५) इति । अथवा गुणसमानाधिकरणा
सत्ताभिन्ना च या जातिः ( द्रव्यत्वम् ) तद्वत्त्वम् । तेन आद्यक्षणा-
वच्छिन्ने उत्पन्नविनष्टे च द्रव्ये नाव्याप्तिः ( त० दी० १ पृ० ५ ) ।
[ ख ] समवायिकारणम् (त० मा० अर्थ० पृ० २७ ) ( मा० १०
साधर्म्य० श्लो० २३ ) । [ग.] द्रव्यत्वरूपजातिमत् ( स० दी० १
पृ० ४ ) ( त० कौ० १ पृ० १ ) । द्रव्यत्वजातिस्तु कार्यसामान्यस्य
संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया सिद्ध्यति
(बै० वि० ११११५) (मु० १ पृ० ३० ) ( नील० १ पृ० ४ ) ।
तथाहि कार्यसमवायिकारणता किंचिद्धर्मेण ( अर्थात् द्रव्यत्वेन) अव-
च्छिन्ना कारणता त्वाइण्डनिष्ठघटकारणतावत् इत्यनुमानेन द्रव्यत्वं जातिः
सिध्यति । अनुगतः अन्यूनः अनतिप्रसक्तश्च यो धर्मस्तस्यैवाषच्छेदकत्वेन
तादृशयत्किंचिद्धर्मस्य जातित्वावश्यकत्वात् इति भावः । एवम् गुणत्वा-
४७ न्या० को०