2023-02-20 00:55:17 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
माशनाश्यत्वेन घृतादिवत्पुनः पिण्डीभावापत्तेश्व इति ( प० मा० ) ।
तैलक्षीरादावपि जलस्यैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यम् इति
बोष्यम् (मु० १५० ७७ ) । अत्रेदमाकूतम् । हिमकरकयोरौ-
पाधिकद्रवत्वनिरोधात् सूर्यकिरणभूमिसंयोगादिनोपाधिनिवृत्तिमात्रम् न तु
द्रवत्वोत्पत्तिः इति ( वाक्य० १ पृ० ९) । तथा च अदृष्टविशेषेण
द्रवत्वप्रतिरोधः । करकायां काठिन्यप्रत्ययो भ्रान्तिरेव (मु० १ जल
पृ० ७७ ) । दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परस्पर-
संयोगो द्रव्यारम्भकः संघातास्यः । तेन परमाणुषत्वप्रतिबन्धात् कार्ये
हिमकरकादौ द्रवस्वानुत्पत्तिः इति ( प्रशस्त पृ० ३४ ) । नैमित्तिकं
च अभ्यादिसंयोगजन्यमित्यर्थः ( वाक्य ० १ पृ० ९ ) । तत्र सांसिद्धिकं
जल एव । नैमित्तिकं पृथिवीतेजसोरेव वर्तते ( प्रशस्त० पृ० ३३ )
( स० सं० ) ( भा०प० लो० १५५-१५८) । सांसिद्धिकद्रव स्वत्वं
जातिविशेषः प्रत्यक्षसिद्धः (मु० १ जल० पृ० ७६ ) । घृतलाक्षादि-
पृथिवीषु सुवर्णादितेजस्सु चाग्निसंयोगजन्यं द्रवत्वं वर्तते इति ज्ञेयम्
(मु० १ पृ० २३२ ) ( त० सं० ) । अयं भावः । सर्पिर्जत्वाकरजेषु
परमाणुष्वग्निसंयोगाद्वेगापेक्षात्कर्मोत्पत्तौ तज्जेम्यो विभागेम्यो द्रव्यारम्भक-
संयोगविनाशात्कार्यद्रव्यनिवृत्तौ अग्निसंयोगादौ॰ण्यापेक्षात् स्वतन्त्रेषु पर
माणुषु द्रवत्वमुत्पद्यते इति ( प्रशस्त० पृ० ३४ ) । तथा च द्रवत्वं
नित्यानित्यभेदेनापि द्विविधम् । तत्र नित्यद्रव्यगतम् नित्यम् । अनित्य-
द्रष्यगतमनित्यम् (मु० गु० पृ० २३२ ) ( प्र० प्र० ) ( त० कौ० )
( ल० म० ) । अत्रायं विवेकः । सांसिद्धिकं द्रवत्वमेव नित्यानित्य-
भेदेन द्विविधम् । तच नित्यगतं नित्यम् । अनित्यगतमनित्यम् । नैमित्तिक-
द्रवस्वं त्वनित्यमेव इति ( वाक्य० ११० ९) । तस्य पाकजन्यस्त्रेन
विनाशसंभवान्न नित्यत्वमिति भावः । द्रवद्रष्याणि तु दुग्धदध्याज्यत-
फ्रासवजलतैलादीनि दैहिकमूत्रादीनि च विज्ञेयानि । २ काव्यशास्त
गतिः । यथा समुद्रमेषामिमुखा द्रवन्ति ( गीता अ० ११ लो० २८)
इत्यादौ । यथा वा ततः किरीटी सहसा पाञ्चालान् समरेद्रवत्
३६८