This page has not been fully proofread.

न्यायकोशः ।
 
३६७
 
कानां मते कचित् सममिव्याहृतपदीयशक्तिव्यञ्जकत्वम् । यथा प्रहार इत्यादौ
प्रादिनिपातानां प्रहरणाद्यर्थयोतकत्वम् ( ल० म० ) । अत्र च धातो-
रेव शतया प्रहारविहाराद्यर्थबोधकत्वसंभवेनोपसर्गाणां धोतकत्वमेव इति
बोष्यम् । अत्र वैयाकरणानां गाया श्रूयते धातूनामनेकार्यकत्वम् इति
( ल० म० धात्वर्थ० पृ० ८) । तदुक्तम् उपसर्गेण धात्वर्थो बला-
दन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ( सि० कौ० ) ।
[ग] कचित् सममिव्याहृतगतवृत्युद्बोधकत्वम् । [घ ] कचित्तु
क्रियाविशेषाक्षेपकत्वम् । यथा प्रादेशं विलिखतीत्यादौ । अत्र विर्विमान-
क्रियाक्षेपकः । तथा च प्रादेशं विमाय लिखति इत्यर्थोषगम्यते ।
यथा वा अय शब्दानुशासनम् इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं
कैयटादावुक्तम् ( ल० म० धात्वर्थ ० १० ७ ) । [ङ ] कचित्तु
संबन्धपरिच्छेदकत्वम् । यथा सर्पिषोपि स्यात् इत्यादौ कर्मप्रवचनीयानां
घोतकत्वम् ( ल० म० धात्वर्थ ० ० ७ ) । अत्र बिन्दुभ्याहारेणापेः
पदार्थद्योतकता । अपिः क्रियायां खद्योयबिन्दुदौर्लम्य प्रयुक्त दौर्लम्यस्थापि
द्योतकः । एवं च सर्पिरवयवबिन्दुकर्तृका तद्विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती
संभावनाविषयीभूता सत्ता इति बोधः (ल० म० सुब० पृ० ९४ ९५ ) ।
द्रवत्वम् – १ ( गुणः ) [क] स्यन्दनकर्मकारणम् ( प्रशस्त० पृ० ३३ ) ।
द्रवत्वं पृथिव्यप्तेजोवृत्ति द्वीन्द्रियमाद्यम् असमवाय निमित्तं च कारणम् ।
तत्र क्रियायामसमवायि संग्रहे तु निमित्तं कारणम् । [ ख ] आद्यस्य-
न्दनासमवायिकारणम् । तत्र द्वितीयादिव्यापारजनकवेगवारणाय आय
इति स्यन्दनस्य विशेषणम् ( वाक्य ० १ पृ० ९) ( दि० गु०
पृ० २३२ ) । द्रवत्वं द्विविधम् । सांसिद्धिकम् नैमित्तिकं च । तत्र
सांसिद्धिकम् अग्यादिसंयोगाजन्यम् । स्वाभाविकम् इत्यर्थः ( वाक्य० १
१० ९ ) । हिमकरकादौ चादृष्टविशेषेण घनीभावेन सांसिद्धिकद्रवत्व-
प्रतिबन्धः कल्प्यते ( सि० च० १ १० ७ ) । एवं च हिमकरकादावपि
सांसिद्धिकं द्रवत्वमस्त्येष । न च तत्र नैमित्तिकं द्रवस्वं युक्तम् । द्रुते
घृते घृतत्वादिवत् करकात्वोपलम्भापत्तेः । नैमित्तिकद्रवत्वस्य निमित्त-