This page has not been fully proofread.

न्यायकोशः ।
 
कर्तृनिष्ठः । यथा गां दोग्धि पय इत्यादौ । अत्र वायुर्वृक्षं गां दोग्धि
इति प्रयोगबारणाय द्रषद्रव्येति पदम् । मेघो जलं दोग्धि इति वारणाय
विशेषः इति पदं दत्तम् । अत्र विशेषो दुहधातुगम्यः । इत्थं च द्रव-
द्रव्येति न देयमित्यपि वदन्ति । अत्र धात्वर्थघटके विभागे गाम् इत्यस्य
क्रियायां पयः इत्यस्य चान्वयात् गोवृत्तिविभागानुकूलपयोवृत्तिक्रियानु-
कूलकृतिमान् इति बाक्यार्थ: ( का० वा० पृ० २) । [६]
मोचनानुकूलव्यापारः । यथा गां पयो दोग्धि गोप इत्यादौ दुहेरर्थः ।
अत्र दुद्दार्थघटकमोचने गोराधेयत्वेन पयसः कर्मत्वेन ( कर्मतानिरूपक-
त्वेन ) अन्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान्
इत्याकारको बोधः । अत्रेदं बोभ्यम् । मोचनं च बहिःक्षरणावच्छिन्न-
व्यापारः । तदनुकूलव्यापारो दोहनम् । अतः धात्वर्यतावच्छेदकीभूतं
( धात्वर्थतावच्छेदकतायामवच्छेदकम् ) बहिःक्षरणरूपं फलमादाय
पयसः गौणं कर्मत्वम् । मोचनात्मकं च फलमादाय गोः मुख्यं कर्मत्वम्
इति । एवं च दुहादयः फलावच्छिन्नक्रिया हेतुव्यापारवा चित्वादेव
द्विकर्मका भवन्ति इति ( श० प्र० श्लो० ७३ पृ० ९८ ) । [ङ ]
निःसरणमात्रम् । यथा दुग्धेस्मै सर्व कामं यो वाचो दोहः (छान्दो०
उ० ) इत्यादौ । यथा वा न कर्मफलमानोति यो धर्म दोग्धुमिच्छति
( महाभा० व० श्लो० ११६५) इत्यादौ । यत्र धर्मदुधा भूमिः
सर्वकामदुधा मही। दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥
( भाग ० ४ । १९१७ ) इत्यादौ च दुहेरर्थः ।
 
धूतम् – अप्राणिमिर्यत्क्रियते तल्लोके द्यूतमुध्यते ( मिताक्षरा २/१९९) ।
द्योतकत्वम् – [क] अर्थविशेषे तात्पर्य प्राहकत्वम् ( चि० ४) ( न्या०
म० ४ पृ० १८) (नील० ) । यथा प्रजयतीत्यादौ प्रशब्दस्य द्योत-
कत्वम् । जयतिरत्र प्रकृष्टजयलक्षकः । प्रशब्दस्तु तात्पर्य ग्राहकः ( न्या०
म० ४ पृ० १८ ) । यथा वा चित्रगुमानयेत्यादी चित्रपदस्य द्योतक-
त्वम् । अत्र च गोपदेनैव लक्षणया चित्रगोखामिबोधनाञ्चित्रपदस्य
थोतकत्वमेव इति ज्ञेयम् (मु० ४ पृ० १८२ ) । [ ख ] शाब्दि-