2023-02-20 00:55:17 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
कर्म-
:
द्रोणं कर्मत्वम् इति विवेकः । गां दोग्धि पय इत्यादौ द्विकर्मकधातुसम-
भिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं
बोधयति । कारकाधिकारीयेण अकथितं च (पा० सू० १/४/५१)
इत्यनेनापादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि
संज्ञाविधानात् इति (ग० व्यु० का० २ पृ० ४३ ) । अन्ये तु गां
दोग्धि पय इत्यादौ गोपदोत्तरद्वितीयाया वृत्तित्वमर्थः । तस्य धास्त्वर्थ-
घटकविभागेन्वयः । शाब्दबोधस्तु पूर्ववदेव ज्ञेयः इत्याहुः । अत्रेदं
बोध्यम् । अस्य दुहेः गौणे कर्मणि लकारादि । तत्रोक्तम् प्रधानकर्मण्या-
ख्येये लादीनाडुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च
कर्मणः ॥ इति (ग० व्यु० का० २ पृ० ४४ ) ( वाच० ) । इदं
चात्रावधेयम् । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् इत्यत्र धात्वर्य-
तावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वम् इत्यतो
न तादृशं कर्मत्वम् अत्र प्रवर्तते इति । दुह्यते गौः क्षीरमित्यादी क्षरण-
जन्यविभागाश्रयत्वं गधादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रवाने
दुहादीनाम् इत्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः ।
आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः । तथा च विभागावच्छिनक्षीर-
निष्ठक्षरणानुकूलव्यापार जन्यक्षरणजन्यविभागाश्रयो गौः इत्याकारको बोधः
( ग० ब्यु० का० २ १० ४४ ) । यथा वा तेषु तेषु तु पात्रेषु
दुशमाना वसुंधरा ( हरिवं० श्लो० ८१ ) इत्यादौ दुहेरर्थ: ( वाच० ) ।
अत्रादिशब्द ग्राह्येषूदाहरणान्तरेषु द्विकर्मकत्वादिविशेषो ज्ञेयः । यं सर्व-
शैला: परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भावन्ति रत्नानि
महौषधीय पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ ( कुमार० स० १ को० २)
इत्यादौ । यः पयो दोग्धि पाषाणम् पयो घटोनीरपि गा दुहन्ति ( मट्टिः )
इत्यादौ च दुहेर्द्विकर्मकत्वम् । दुहेरन्यकर्मकत्वाविवक्षायामेककर्मकत्वमपि ।
यथा दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ( मनुः ) इत्यादौ । यथा
वा दुग्ध्वा पयः पत्रपुढे मदीयम् ( रघु० स० २ को० ६५) इत्यादौ
च। [ग] द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः । स च