This page has not been fully proofread.

३६४
 
न्यायकोचः ।
 
मथ भवेत्किष्टम् । अविमृष्ट विधेयांश विरुद्धमतिकत् समासगतमेव ॥
इति ( दोषा: १८ ) ( काव्य० प्र० उ० ७ श्लो० ५०-५१ )।
एवम् वाक्यमात्रगतदोषाः रसदोषाः साक्षात्परंपरया वा तत एव
विज्ञेयाः । ७ वातपित्तकफजाः इति त्रयो भ्रमदोषाः इति मिषजः प्रव-
दन्ति । अत्रोच्यते । वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ।
विकृताविकृता देहं नन्ति ते वर्धयन्ति च ॥ इति ( वाग्भट० ) । अत्र
विशेषः । चिरञ्बरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः ।
किराततिक्तादिगणः प्रयोज्य: शुद्धयर्थिने वा त्रिवृताविमिश्रः ॥ इति
(चकदत्त० ) । अत्रार्थे दोषशब्दे दुष वैकृत्ये इति दुषधातोः करणे
घञ् । तथा चोक्तम् धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः । वातपित्त-
कफा एते त्रयो दोषा इति स्मृताः ॥ इति ( वाग्भट० ) । अत्र द्विषष्टि-
र्दोषभेदाः इति सुश्रुतकारा आहुः । ८ अनुद्योगदेशान्तरापर्यटनदर्शनी-
यवस्त्वाचनबलोकनादयो दोषाः इतीदानींतना विद्वन्मन्याः पाश्चात्याश्च
केचिन्मन्यन्ते ।
 
दोहनम् – [क] क्षरणानुकूलव्यापारः । यथा गां पयो दोग्धि मैत्र
इत्यादौ दुहेरर्थः । अत्र गोपदोत्तरद्वितीयाया अर्थो विभागः ।
तस्य जनकत्वसंबन्न क्षरणेन्वयः । विभागे चाधेयतासंबन्धेन प्रकपर्थ-
गवादेरन्वयः । प्रधानकर्मक्षीरवाचकपयःपदोत्तरद्वितीयार्थो वृत्तित्वम् ।
तस्य धात्वर्थतावच्छेदके क्षरणरूपे फलेन्वयः । एवं च गोनिष्ठविभागा-
नुकूळपयोनिष्ठक्षरणानुकूलव्यापारकर्ता मैत्रः इति बोधः । [ ख ] वस्तु-
तस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारः । अत्रायं विशेषो ज्ञेयः ।
यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतया विवक्षितम् क्षरणान्वयिवि-
भागश्च विभत्तयर्थतया तत्रापादानत्वबोधिका पञ्चमी इति (ग० ब्यु०
का० २ पृ० ४४ ) । गां दोग्धि पयः दुझते गौः क्षीरमित्यादौ
अकथितं च (पा० सू० ११४ । ५१ ) इत्यनेन सूत्रेण गोरपादानत्वाद्य-
विषक्षया कर्मत्वं बोध्यम् । तत्र धात्वर्थतावच्छेदकीभूतक्षरणस्य पयो-
वृत्तित्वात्पयसो मुख्यं कर्मत्वम् । गोस्तु तादृशक्षरणजन्यविभागाश्रयत्वा-