2023-02-20 00:55:16 by ambuda-bot
This page has not been fully proofread.
वायकोशः ।
३६३
कप्रत्यक्षविषयत्वे सतीत्युक्त्या शरीरादृष्टेश्वरेच्छादौ नातिव्याप्तिः । यागा-
दिगोचरप्रमावारणाय प्रमान्यत्वे सतीत्युक्तम् ( गौ० वृ० ११ १/१८) ।
अथवा दोषत्वं प्रमाकारणीभूताभावप्रतियोगित्वम् ( मू० म०
उत्प० पृ० ३२४ ) । दोषाणां त्रयः पक्षाः रागपक्षः द्वेषपक्षः मोह-
पक्षश्च । तत्राद्यः पक्षः कामः मत्सरः स्पृहा तृष्णा लोभः माया दम्भः
इति । द्वितीयः पक्षः क्रोधः ईर्ष्या असूया द्रोह: अमर्षः अमिमानः
इति । तृतीयः पक्षः विपर्ययः संशयः तर्क: मानः प्रमाद: भयम् शोकः
इति ( गौ० वृ० ४ । १ । ३ ) ( वात्स्या० ४।१।३ ) । ३ व्यावृत्तिव्यवहारै-
तदन्यतरप्रयोजनविघटको धर्मः । स च लक्षणदोषः इति व्यवह्नियते ।
यथा एकशफत्वस्य गोर्लक्षणस्यासंभवः । स च दोषत्रिविधः । अव्याप्तिः
अतिव्याप्तिः असंभवश्व ( नील० ११० १) । ४ अनुमितितत्करण-
परामर्शे तदन्यतरप्रतिबन्धकयथार्थ ज्ञानविषयः (त० दी० २ १०२४ ) ।
अथवा यद्विषयकत्वेन ज्ञानस्यानु मिसितत्कारणीभूतपरामर्शेतदन्यतरप्रति-
बन्धकत्वं सः । स च दोषः पञ्चविधः सव्यभिचारत्वम् ( व्यभि-
चारः ) विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्च इति ( चि० २ पृ०
८३-८४ ) ( न्या० बो० २ पृ० १७) । स च हेतुदोषः हेत्वाभा-
सश्व इत्यपि व्यवद्दियत इति विज्ञेयम् । तल्लक्षणादिकं च हेत्वाभासश-
ब्दव्याख्यानावसरे सविस्तरं संपादयिष्यत इत्यत्रैव विरम्यते । ५ विध्युळङ्घ-
नजन्यः अदृष्टविशेषो दोषः ( प्रत्यवायः ) इति मीमांसका आहुः । गुरु-
तल्पगमनाभक्ष्यभक्षणादिजन्यपापविशेषः इति धर्मज्ञाः पौराणिकाश्च
संजगदिरे । ६ काव्यज्ञास्तु अपकर्षप्रयोजको वस्तुनिष्ठो धर्मविशेषः
( वाच० ) । अत्रोच्यते । स्याचेतो विशता येन सक्षतारमणीयता ।
शब्देर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥ ( चन्द्रालो० ) इति ।
अथवा मुख्यार्थहतिः ( काव्य ० प्र० उ० ७ श्लो० ४८ ) । यथा
यतिभङ्गश्रुतिकटुत्वादयः पदादिगतदोषाः संभवन्ति इति बदन्ति । अत्रो-
च्यते । दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्य प्रयुक्तमसमर्थम् । निहतार्थमनु-
चितार्थ निरर्थकमवाचकं त्रिधाश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थ-