This page has not been fully proofread.

३६२
 
न्यायकोशः ।
 
f
 
दैशिकम् - १ देशकृतम् देशसंबन्धि वा । यथा परत्वमपरत्वं च द्विविधं
परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव च दैशिकम् ॥ ( भा०
प० श्लो० ११२) इत्यादौ । भत्रार्थे देशेन निर्वृत्तम् दैशिकम् इति विग्रहो
द्रष्टव्यः (वाच ० ) । २ मन्त्राद्युपदेशकर्ता गुरुर्देशिकः इति धर्मज्ञा आहुः ।
दैशिकविशेषणता – ( स्वरूपसंबन्धः ) अभावीयदैशिकस्वरूपसंबन्धः ।
यथा भूतले घटो नास्तीत्यादौ भूतलघटाभावयोः संबन्धः ।
दोषः – १ अप्रमाया असाधारणकारणम् ( त० दी० गु० १० ३६) ।
अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यतानिरूपितकारणता-
शालीत्यर्थः ( नील० गु० पृ० ३६ – ३७) । यथा दोषोप्रमाया
जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः
स्मृतः ॥ ( भा०प० लो० १३२) इत्यादौ काचकामलपित्तमण्डूक-
बसाञ्ज नादिर्भमोत्पादको दोषः (मु० गु० पृ० २११ ) । तथाहि
शङ्खे पीतभ्रमे पित्तं दोषः । क्वचित् चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं
दोषः । कचिञ्च वंशोरगग्रमे मण्डूकवसाञ्जनम् । इत्येवंरूपदोषा अननुगता
एव भ्रान्तिजनका इत्यर्थः (मु० गु०प० २११ ) । २ प्रवर्तनाल-
क्षणा दोषाः ( गौ० १११११८ ) । प्रवर्तना प्रवृत्तिहेतुत्वम् । अत्र
विग्रहः । प्रवर्तना प्रवृत्तिजनकत्वम् । तदेव लक्षणं येषाम् इति (गौ०
वृ० १।१।१८ ) । दोषास्तु बुद्धिसमानाश्रयत्वादात्मगुणाः ( वात्स्या ●
४।१।२ ) । का पुनरियं प्रवर्तना । यथा अवशः प्रवर्तते तं प्रवर्तमानं
रागादयः प्रवर्तयन्तीति । सेयं प्रवृत्तिहेतुत्वात्प्रवर्तनेत्युच्यते (न्या० बा०
१।१।१८ पृ० ८५ ) । ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे
वा । यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति । प्रत्यात्मवेदनीया हीमे दोषाः
कस्मात् लक्षणतो निर्दिश्यन्त इति । कर्मलक्षणा: खल रक्तद्विष्टमूढाः ।
रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते । तथा द्विष्टः
तथा मूढः इति । दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवतीति
( वात्स्या० १ । १ । १९८) (त० दी० पृ० ४२ ) । अत्रत्यम् दोषलक्षणं
च लौकिकप्रत्यक्षविषयत्वे सति प्रमान्यत्वे सति प्रवृत्तिजनकत्वम् । लौकि-