This page has not been fully proofread.

न्यायकोशः ।
 
३६१
 
इति ( ऋ० प्रा० ११ १२ १) । पितरो देवताः इति च (ग० न्यु० का०
१ पृ० २ ) । यत्रोच्यते । वसुरुवादितिसुताः पितरः श्रद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० अ० १
श्लो० २६८) । [ग] मीमांसकास्तु देशनादेशित चतुर्थ्यन्तपदनि-
र्देश्यत्वम् इत्याहुः । यथा इन्द्राय स्वाहा अग्नये स्वाहेत्यादिमन्त्राणामेव
देवतात्वम् । तदर्थश्च देशनया तद्धितादिरूपया देशितम् बोधितम्
चतुर्थ्यन्तपद निर्देश्यत्वम् तच्छन्दोच्चारणम् यत्र तत् तथा । इन्द्राय इत्यु-
चार्य दद्यात् इति वेदेन बोधनात् । अत्रोक्तम् तद्धितेन चतुर्ध्या वा
मन्त्रलिङ्गेन वा पुनः । देवतासंगतिस्तत्र दुर्बलं तु परं परम् ॥ इति
( त० प्र० ख० ४ पृ० १२२ ) । याज्ञवल्क्य आइ यस्य यस्य तु मन्त्रस्य
उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य देवत्वं देवतेति च ॥ इति
( वाच० ) । अत्र विशेषः । शब्दमयी देवता इति केचिदाहुः । अर्थो
पहितः शब्द एव देवता इत्यपरे अमन्यन्त ( त० प्र० ख० ४ १०
१२२ ) । [घ ] वेदमेयत्यागोद्देश्यत्वम् । अत्रोद्देश्यत्वं च तस्येदम्
इत्यारोपज्ञान विषयत्वम् ( श्राद्धविवेके ) । मप्रस्तुत्यत्वं वा । तदुभयं
पितॄणामस्तीति श्राद्धादौ तेषां देवतात्वम् ( वाच० ) । [ ढ ] मन्त्रेण
धोत्यत्वम् । यथाह ऋग्वेदभाष्योपोद्धाते माधवः तथा देवनार्थदीव्यतिधा-
तुनिमित्तो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोभूदिति तदेवानां
देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति ।
 
देशः– येनार्थानुसंधानपूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः
( सर्व० सं० पृ० १६३ नकु० ) ।
 
देशना- -नियोगः ( विध्यादिः ) । यथा एकोद्दिष्टादिवृद्ध्यादौ हासवृद्ध्या-
दिदेशना ( व्यास० ) इत्यादौ ( वाच ० ) ।
 
दैवः – ( विवाहः ) यज्ञस्थऋत्विजे दैवः । यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे
शक्तयलंकृता कन्या दीयते सः ।
 
दैविकम् – देवानुद्दिश्य क्रियते यत्तदैविकमुष्यते ( पु० वि० १० ३९ ) ।
 
४६ न्या० को०